SearchBrowseAboutContactDonate
Page Preview
Page 802
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७श अध्यायः ] चिकित्सितस्थानम्। ३०३१ यत्किञ्चित् कफवातन्त्रमुष्णं वातानुलोमनम् । भेषजं पानमन्नं वा हिकाश्वासेषु तद्धितम् ।। वातकद वा कफहरं कफद् वानिलापहम् । कायं नैकान्तिकं ताभ्यां प्रायः श्रेयोऽनिलापहम् ॥ सर्वेषां वृहणे ह्यल्पः शक्यश्च प्रायशो भवेत् । अवश्यं शमनेऽपायो भृशोऽशक्यश्च कर्षणे ॥ * गङ्गाधरः-उपसंहरति-यत्किञ्चिदित्यादि। कफवातघ्नमिति संयुक्तकफवातोभयन्नम्। तदाह-वातदित्यादि। यदेकं भेषजादिकं वातकृत कफहरं यद्वा कफकृत् अनिलापहं भवति तन्नैकान्तिकं नाव्यभिचारि योग्यं, ताभ्यां हि प्रायोऽनिलापहं श्रेय इति । सर्वेषामित्यादि। सर्वेषां हिक्काश्वासानामपायो हि यस्माद ढहणे भेषजानपानेऽल्पः शक्यः प्रायशो भवेत्, शमने भेषजानपाने सर्वेषामपायोऽवश्यं शक्यो भवेत्, कर्षणे भेषजानपाने सर्वेषामपायो चक्रपाणिः-अनुक्तचिकित्सापक्षग्रहणार्थमाह-यत्किञ्चिदित्यादि। अनैकान्तिकं कर्तव्यविधिमाह-वातकृदित्यादि। अत हिक्काश्वासयोश्चिकित्सिते विधिवयम्। तत्र तावत् कफवातहरं प्रधानमेवोक्तम् । यत् तु अवशिष्टं तत्र दोषस्य विद्यमानतया एकान्तेन करणं ज्ञेयम् । एवमुक्तेऽपि अनकान्तेन चिकित्साद्वयकरणे वातहरस्यैव प्राधान्यं ज्ञेयम् ताभ्यामित्यादि। अनिलापहञ्च वृहणं समानं भवति। तत्रोपपत्तिमाह सर्वेषामित्यनेन। गदान्तरानपि ज्वरादीन् हिक्कावासवदहणा नाह। वृहणे क्रियमाणे ह्यल्पः शक्यः प्रतीकारो भवति वृहणजनितबलानां सुखजयव्यापत्तिकत्वात् इति भावः। शमने तु अवश्यमपायो भवति । कर्षणे तु क्रियमाणे अशक्योऽपायो भवति कष्टश्च भवति। अशक्य इति असाध्यः। एतदपि कर्षणेन बहुबले पुरुषे भेषजादिना रोगस्य दुःशकत्वात् इति ज्ञेयम् । अत एव शमनैः वृहणैरिति उपसंहारं करिष्यति। किंवा वृहणरूपे शमने क्रियमाणे नावश्यमपायो भवति, सर्वेषामिति। सर्वेषां हिक्काश्वासार्तानां हि यस्माद् वृहणे विधीयमाने कदाचिद् दैववशाद यो यो रोगोऽन्यरोगप्रादुर्भावो वा भवेत् स प्रायशोऽल्पस्तथा शक्यः साधयितु सुखसाध्यः। तथा तेषां शमने भेषजादौ क्रियमाणे पायो यदि दैवात् स्यात् स नात्यर्थे नातिशयेन किं तर्हि मध्यमया वृत्त्या हिवाश्वासशान्त्यर्थम् । कर्षणे भिषजा क्रियमाणे यो रोगो जायते, स भृशो दुःसहोऽतएवाशक्यः साधयितु न शक्यते। यत एवं भृशोऽशक्यश्चापायो भवति, अतोऽस्मात् कारणात् हिकाश्वासान् भूयिष्ठं बाहुल्येन शमनैर्भपजादैवस्तथा वृहणैरुपाचरेत् । इत्यरुणः। For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy