SearchBrowseAboutContactDonate
Page Preview
Page 788
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७श अध्यायः] ... चिकित्सितस्थानम् । ३०१७ ततः श्लेष्मणि संवृद्ध वमनं पाययेत् तु तम् । पिस्तीसैन्धवक्षौद्र-युक्तं वाताविरोधि यत् ॥ निह ते सुखमाप्नोति स कफे दुष्टविग्रहे। स्रोतःसु हि विशुद्धेषु चरत्यविहतोऽनिलः ॥ २३ ॥ लीनश्चेद दोषशेषः स्यात् तं धूमर्निर्हरेद् बुधः। हरिद्रां यवमेरण्ड-पूलं लानां मनःशिलाम् ॥ सदेवदावलं मांसी पिष्टा वर्ति प्रकल्पयेत् । तां घृताक्तां पिबेद धूमं यवैर्वा घृतसंयुतैः॥ मधूच्छिष्टं सर्जरसं घृतं मल्वकसंपुटे। कुत्वा धूमं पिबेच्छृङ्ग बालं वा स्नायु वा गवाम् ॥ यावच्छुष्कीभूय ग्रथितो न भवेत्। ततः श्लेष्मणि संवृद्धे चोलिष्टे च तमातुरं वमनौषधं पाययेत्। यमनौषधं वाताविरोधि तत् सैन्धवपिप्पलीक्षौद्रयुतं पाययेत्। दुष्टविग्रहे कफे निह ते सति स पुमान् सुखमामोति। कुतः ? स्रोतःसु हीत्यादि। हि यस्मात् स्रोतःसु विशुद्धेषु सत्सु अविहतः पथिरोधाभावेनाविहतगतिरनिलश्चरनि ॥२३॥ गङ्गाधरः-वमनेन निह तकफशेषे किं कुर्यादित्यत आह-लीनश्चेत् इत्यादि। यदि दोषशेषः स्रोतःसु लीनो वर्त्तते, तदा बुधो धूमैस्तं लीनं दोषशेषं निर्हरेत् । धूमानाह-हरिद्रामित्यादि। अलं हरितालम् । हरिद्रादीनि मांस्यन्तानि अष्टौ द्रव्याणि पिष्ट्वा वत्तिं धूमवर्ति प्रकल्पयेत् । तां घृताका वर्ति कृला धूमं पिबेत्। घृतसंयुतैर्यवः पिष्टैर्वतिं कृला धूमं वा पिवेत्। मधूच्छिष्टमित्यादि। मधूच्छिष्टं सर्जरसश्च चूर्णयिता घृत छईयतीह दुःखम् । वाताविरोधीत्यनेन अन्नं रुक्षं तीक्ष्णं वमनं निषेधयवि। दुष्टः विग्रहो यस्य स दृष्टविग्रहः ॥ २३ ॥ चक्रपाणिः-वमनशेषहरणार्थ धूममाह-लोन इत्यादिना। एतेन धूमवमनं विनापि स्वल्पदोषे कर्तव्या एव। मात्रापि धूमविषया दोपत्य विद्यमानत्वात् । अलं हरितालम। धूमवर्तिकरणं तस्याशीतीयोक्तधमतिविधानेन कत्र्तव्यम् । अव च धूमपाननलिकामानं वक्ष्यमाणकासहरधूमनलिकामानसमानम् इच्छन्ति हिक्काश्वासयोरपि काससमानत्वात्। मधुच्छिष्टं सिक्थकम् । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy