SearchBrowseAboutContactDonate
Page Preview
Page 775
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३००४ चरक-संहिता। हिवाश्वासचिकित्सितम् अभिष्यन्दुरपचाराच्च श्लेष्मलानाञ्च सेवनात् । कण्ठोरसोः प्रतीघाताद विबन्धैश्च पृथग्विधैः ॥ मारुतः प्राणवाहीनि स्रोतांस्याविश्य कुप्यति । उरस्तः कफमुद्भूय हिकाश्वासान् करोत्यथ । घोरान् प्राणोपरोधाय प्राणिनां पञ्च पञ्च च ॥४॥ द्वयोश्च पूर्वरूपाणि शृणु वक्ष्याम्यतः परम् । कण्टोरसोगुरुत्वञ्च वदनस्य कषायता॥ हिकानां पूर्वरूपाणि कुक्षेराटोप एव च । आनाहः पावशूलञ्च पीड़नं हृदयस्य च । प्राणस्य च विलोमत्वं श्वासानां पूर्वलक्षणम् ॥५॥ प्राणोदकानवाहीनि स्रोतांसि सकफोऽनिलः। हिक्काः करोति संरुध्य तासां लिङ्ग पृथक् शृण ॥ ६॥ दिभ्यो हेतुभ्यश्च । प्राणवाहीनि स्रोतांस्याविश्य मारुतः कुप्यति, कुपितः स उरस्तः उरसः कफमुख्य ऊद्ध नीखाऽथ हिक्कावासान् पञ्च पञ्च च प्राणिनां माणोपरोधाय घोरान् करोति ॥४॥ गङ्गाधरः-तत्रादौ हिकानां पूर्वरूपाण्याह-कण्ठेत्यादि । कुक्षेराटोपो गुड़गुड़ाशब्दः। हिक्कापूर्वरूपानन्तरं श्वासपूर्वरूपमाह-आनाह इत्यादि। प्राणस्य च विलोमत्वं, प्राणोऽत्र श्वासनिर्गमनं तस्य विलोमखमनुलोमाभाव इति ॥५॥ - गङ्गाधरः-हिकायाः सम्प्राप्तिमाह-प्राणेत्यादि । प्राणादिवाहीनि स्रोतांसि सकफोऽनिलः संरुध्य हिक्काः करोति। तासां पृथक् प्रत्येकं लिङ्गं शृणु॥६॥ रूपत्वम्। प्राणवाहीनी यादिना संप्राप्तिमाह। इयं हिवाश्वासयोः साधारणी संप्राप्तिः। वैशेषिकी पान वक्ष्यति । प्राणोपरोधायेति प्रायः प्राणहरायेत्यर्थः । पञ्च पञ्च चेति हिलाः पञ्च श्वासाः पञ्च इत्यर्थः ॥ ४॥ चक्रपाणिः-लक्षणग्रहगृहीतं पूर्वरूपं हिकानां कण्ठोरसोः इत्यादिमा, श्वासानामानाह इत्यादिना आह । विलोमस्वमिति पर्याकुलस्वम् ॥५॥ चक्रपाणिः-प्राणोदकेत्यादिना विशिष्टहिकासंप्राप्तिमाह ॥६॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy