SearchBrowseAboutContactDonate
Page Preview
Page 766
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६श अध्याय चिकित्सितस्थानम्। २६६५ पाण्डुरोगप्रशान्त्यर्थमिदमुक्तं चिकित्सितम्। विकल्प्यमेतद् भिषजा पृथग् दोषबलं प्रति ॥ स्नेहप्रायं पवनजे तिक्तशीतन्तु पैत्तिके। श्लैष्मिके कटुरुक्षोष्णं मिश्रं स्यात् सान्निपातिके॥ निष्पातयेच्छरोरात् तु मृत्तिकां भक्षितां भिषक् । युक्तिज्ञः शोधनस्तीक्ष्णैः प्रसमीक्ष्य बलाबलम् । शुद्धकायस्य सी षि बलाधानानि योजयेत् ॥ ३६॥ व्योषं विल्वं हरिद्र द्वे त्रिफला व पुनर्नवे। मुस्तान्ययोरजः पाठा विडङ्ग देवदारु च ॥ वृश्चिकाली च भार्गी च सक्षारैस्तैः समैघृतम्। साधयित्वा पिबेद युक्त्या नरो मृदोषपीडितः। तद्वत् केशरयष्ट्याह्व-पिप्पलीक्षारशाद्वलैः ॥ ४०॥ पक्वं तोयं पाण्डुरोगिणां प्रशस्यते। कामलार्तानान्तु मृद्वीकामलकाट रसः शृतः काथः पानाहारे प्रशस्यते ॥३८॥ गङ्गाधरः-पाण्डुरोगेत्यादि । इदं चिकित्सितं पाण्डुरोगप्रशान्त्यर्थं सामान्यत उक्तं, पृथगदोषबलं प्रति एषु मध्ये भिषजा बुद्धया विकल्प्यं विशेषेण कल्पनीयं भवति। कथं विकल्प्यं तदाह-स्नेहप्रायमित्यादि । प्रायशब्देन सर्वत्र उन्नेयं प्रायिकत्वम् । तिक्तशीतप्राय पैत्तिके । कटुरुक्षोष्णमायं श्लैष्मिके । दोषजपाण्ड कामलाचिकित्सितम् उक्त्वा मृत्तिकाजपाण्डरोगचिकित्सितमाह-निष्पातयेत इत्यादि। भिषक् मृत्तिकाभक्षणजे पाण्डुरोगे भक्षितामपकां मृत्तिकामुदरस्था युक्तिशोबुद्धया बलाबलं प्रसमीक्ष्य तीक्ष्णैः शोधनैः शरीरानिष्पातयेत् निःसारयेत् । शुद्धकायस्य तस्य बलाधानानि वल्यदशकसिद्धानि सीपि योजयेत् ॥३९॥ गङ्गाधरः-बलाधानानि च सीषि कियन्त्याह-व्योषमित्यादि। व्योषादिभिः सखारैः प्रत्येकं समंधुतात् पादिकैः कल्कैश्चतुर्गुणजले साधयिता मृदोषपीड़ितो नरो युक्त्या पिवेत् । तद्वदित्यादि। केशरादिभिः कल्कैः चक्रपाणि:--विकल्प्यमित्यनेन विकल्पविधिमाह। निष्पातयेदित्यादिना मृजपाण्डुरोगचिकित्सामाह । शाद्वलं दूर्वा ॥ ३९ ॥ ४०॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy