SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १५श अध्यायः । चिकित्सितस्थानम् । दुरालभाया द्विप्रस्थं प्रस्थमामलकस्य च । मुष्टी चित्रकदन्त्योद्वे प्रप्रञ्चाभयाशतम् ॥ चतुर्द्रोणेऽम्भसः पक्त्वा शीतं द्रोणावशेषितम् । सगुद्विशतं पूतं मधुनः कुड़वायुतम् ॥ तद्वत् प्रियङ्गोः पिप्पल्या विङ्गानाञ्च चूर्णितैः । कुड़वैघृतकुम्भस्थं पचादूर्द्ध पिवेन्नरः ॥ ग्रहणी पाण्डुरोगार्शः- कुष्ठवीसर्पमेहनुत् ॥ स्वरवर्णकरश्चैव रक्तपित्तकफापहः ॥ ५५ ॥ द्विपञ्चमूल्य रजनी - वीरर्षभकजीवकान् । पृथक पञ्चपलान् भागांश्चतुर्द्रोणेऽम्भसः पचेत् ॥ Acharya Shri Kailassagarsuri Gyanmandir २६५३ पादांशमधुयुतम् एलादिकल्कलिप्तघृतकुम्भे मासं स्थापयेत् । (इक्ष्वासवः) । एवं काश्मय्यस्य गाम्भारीफलस्य स्वरसं पक्कमर्द्धक्षयीकृतं शीतीकृतं पादांशमधुयुतम् एलादिकरूषिते घृतकुम्भे मासं स्थापयेत् । ( काश्मर्थ्यासवः) । द्राक्षाकामर्थ्ययोः स्वरसाभावे शुष्कद्राक्षां शुष्कगम्भारीफलं काथविधिनाष्टगुणे जले पक्त्वा चतुर्थभागावशेषितः स्वरसो ग्राह्यन्तं पूतं पुनरर्द्धक्षयीकृतं पक शीतं पादांशमधुयुतमेलादिकल्करूपिते घृतकुम्भे मासं स्थापयेत् । जातं तमासवं लध्वन्नभोजनादनु पिबेत् । इत्यासवाः पञ्च ॥ ५४ ॥ For Private and Personal Use Only गङ्गाधरः– अपरञ्चासवमाह - दुरालभाया इत्यादि । दुरालभायाः प्रस्थद्वयमामलकस्य प्रस्थं चित्रकमूलस्य मुष्टिः पलं दन्तीमूलस्य मुष्टिः पलमिति द्वे मुष्टी चित्रकदन्त्योः । प्रत्ययं परिपूर्ण वीर्य भयाशतं शतगुड़कं न तु शतमुष्टिं पानीयत्वादासवस्य । तत् सव्र्व्वमम्भचतुर्द्रोणे पक्त्वा द्रोणावशेषितं पूला शीतं कृत्वा गुड़द्विशतपलसहितं कुड़वमितमधुयुतं प्रियङ्गप्रभृतीनां प्रत्येकं चर्णितः कुवमितैः सहितं तद्वत् पूर्ववदलादिकल्क लिप्तघृतकुम्भस्थं पक्षं जातं भवति न तु मासम् । पक्षादूर्द्ध नरो लध्वन्नभोजनादनु पिबेत् । दुरालभासवः ।। ५५ ॥ गङ्गाधरः– द्विपञ्चेत्यादि । द्वे पञ्चमूल्यौ दशमूली । वीरा शालपर्णी । चक्रपाणिः - चित्रकदन्त्योर्मुष्टी द्वे इति मिलित्वा द्विपलम् ॥ ५५ ॥
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy