SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५श अध्यायः २६५१ चिकित्सितस्थानम् । शुष्कमूल कयूषेण कौलत्थेनाथवा पुनः । कटम्लक्षारपटुना लघून्यन्नानि भोजयेत् ॥ अम्लञ्चानुपिबेत् तक्र तक्रारिष्टमथापि वा। मदिरां मध्वरिष्टं वा निगद सीधुमेव वा ॥ ५२ ॥ द्रोणं मधूकपुष्पाणां विडङ्गश्च ततोऽर्द्धतः। चित्रकस्य ततोऽर्द्धश्च तथा भल्लातकाढ़कम् ॥ काषिकाणि उदकप्रस्थे पक्त्वा पादशेषं पानार्थ तत् प्रयुञ्जीत। तचोदकर्मण्डपेयाविलेपीनामन्यतमां यवागू साधयेत् ॥५१॥ गङ्गाधरः-एवं मण्डादिक्रमेण लबाहारेणाग्निद्धौ भोजनार्थमाहशुष्कत्यादि। कटुम्लक्षारपटुना मरिचादिभिः कटुना कपित्यादिनाम्लेन यवक्षारादिना क्षारेण सैन्धवादिभिः पटुना लवणेन शुष्कमूलकस्य काथकल्कयो रन्यतरेण सिद्धेन मुद्गादियूषेण केवलेन कौलत्थेन यूपेण वा कटादिना लघूनि रक्तशाल्यादीनामन्नानि भोजयेत् पीतमण्डादिना विद्धाग्नि श्लेष्मग्रहणीरोगिणमिति। तदनभोजनानन्तरमम्लं तर्क तक्रारिष्टं वा मदिरां वा मध्वरिष्टं वा निगदसंज्ञवा सीधुं वो पिबेन तु जलं पिबेत् । तक्रमम्लं प्रसिद्ध तक्रारिष्टमुक्तं मदिग च प्रसिद्धा ॥५२॥ . गङ्गाधरः-तद्विशेषानासवानाह-द्रोणमित्यादि। मधुकपुष्पाणामार्द्राणां द्रोणं चतुःषष्टिशरावं शुष्काणां द्वात्रिंशच्छरावं ततोऽर्द्धतः षोड़शशरावं विहॉ शुष्कलादाऱ्याणां नवखादयौगिकखात्। उक्तं हि-"द्रव्याण्यभिनवान्येव प्रशस्तानि क्रियाविधौ । ऋते गुड़घृतक्षौद्र-धान्यकृष्णाविडङ्गतः।” इति। चित्रकस्य आर्द्रस्य ततोऽर्द्धतोऽष्टशरावं शुष्कस्याद्रस्य तु षोड़शशरावमेव । उक्तं हि"शुष्कद्रव्येष्बिदं मानं द्विगुणं तद्वाद्र्योः” इति। शुष्कस्य तु चित्रकस्य अष्टशरावमेव ततोऽद्धतो भवति। तथा भल्लातकफलस्यादकमष्टशरावं चक्रपाणिः-ग्रहण्यामित्यादि। स तु पानार्थ कदम्लक्षारपटुनेति कदादियोगात् (संस्कृतं शुष्कमूलकयूषं कौलत्थयूषं वा उपयुञ्जीत न तु जलं, तेनैव यूषेण लघून्यन्नानि भुञ्जीत ।) कफग्रहण्यां सद्यस्कमेव यद्यपि कषायत्वात् तक्रमुचितम्, तथापि अग्निदीपनतया अम्लमेव तकं अम्लञ्च अनुपिबेदित्यनेनैवोकम् । निगदं सीधुमिति निर्दोषं सीधुम् ॥ ५०–५२ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy