SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १म अध्यायः ] चिकित्सितस्थानम् । तत्र श्लोकः । रसायनानां संयोगाः सिद्धा भूतहितैषिणा । निर्दिष्टाः प्राकामीये सप्त चैवं दशर्षिणा ॥ १७ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने प्रथमाध्याये प्राकामीयर सायनपादो द्वितीयः ॥ २ ॥ * www.kobatirth.org . चवनाववंशजा ये पूर्वपादोक्तरसायनपरायणास्तेभ्योऽन्ये । तस्मान्न पुनरुक्तं दृष्टफलवात् ।। १६ ॥ गङ्गाधरः - पादार्थमुपसंहरति तत्र श्लोक इत्यादि । सप्त च एवं भल्लातकयोगा दश । अथ सुश्रुते मेघायुष्कामीये यथा । मेधायुष्कामः नवलगुजफलान्यातपपरिशुष्काण्यादाय सूक्ष्मचूर्णानि कृत्वा गुडेन सह समालोड्य स्नेहकुम्भे सप्तरात्रं धान्यराशौ निदध्यात् । सप्तरात्रादुद्धृत्य हृतदोपस्य यथावलं पिण्डं प्रयच्छेदनुदिते सूर्ये उष्णोदकञ्चानुपिवेत् । भल्लातकविधानवच्चागारप्रवेशः, जीर्णो पश्चापराह्न हिमाभिरद्भिः परिषिक्तगात्रः शालीनां पष्टिकानाञ्च पयसा शर्करामधुरेणौदनमश्नीयात् । एवं पण्मासानुपयुज्य fararicar amartaः श्रुतनिगादी स्मृतिमानरोगो वर्षशतायुर्भवति । कुष्ठिनं पाण्डरोगिणमुदरिणं वा कृष्णाया गोमंत्रेणालोड्यार्द्धपलिकं पिण्डं विगतलौहित्ये सवितरि पाययेदपराह्णे चालवणेनामलकयषेण सर्पिष्मन्तमोदनमश्नीयात् । एवं मासमुपयुज्य स्मृतिमानरोगो वर्षशतायुर्भवति । १ । एप एवोपयोगश्चित्रमूलानां रजन्याश्चित्रकले विशेषो द्विपलिकं पिण्डं परं प्रमाणम् शेषं पूर्व्ववत् । २ । हृतदोष एवं प्रतिसंसृष्टभक्तो यथोक्तमागारं प्रविश्य मण्डपर्णीस्वरसमादाय सहस्रसम्पाताभिहतं कृत्वा यथाबलं पयसा आलोड्य पिवेत् पयोsनुपानं वा । तस्यां जीर्णायां यवान्नं पयसोपयुञ्जीत तिलैर्वा सह भक्षयित्वा त्रीन् मासान् पयोऽनुपानम्; जीर्णे पयः सर्पिरोदन इत्याहारः । एवमुपयुञ्जानो ब्रह्मवर्चसः श्रतनिगादी भवति, वर्षशतमायुरवाप्रोति । त्रिरात्रोपोषितश्च त्रिरात्रमेनं भक्षयेत् त्रिरात्रादूर्द्ध पयःसपिरिति चोपयुञ्जीत । विल्वमात्रं पिण्डं वा पयसालोड्य पिवेदेवं दशरात्रमुपयुज्य मेधावी वर्षशतायुः सप्तत्रिंशन्महर्षिणा इति चक्रः ! २८९ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only २३०१
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy