SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५श अध्यायः] चिकित्सितस्थानम्। २६४१ मजत्यामा गुरुत्वाद विट् पक्का तूत्नवते जले। विनातिद्रवसंघात-शैत्यश्लेष्मप्रदूषणात् ॥ परीक्ष्यैवं पुरा सामं निरामश्चामदोषिणम् । विधिनोपाचरेत् सम्यक् पाचनेनेतरेण वा ॥ ३५ ॥ चित्रकं पिप्पलीमूलं द्वौ क्षारौ लवणानि च । व्योषं हिजमोदाञ्च चव्यञ्चैकत्र चूर्णयेत् ॥ क्षारद्वयान्तानां चूर्ण मुखाम्बुना पिवेद योग्यखान्न तु शुक्तादीनामिहानुत्तिरेतेषामिति पदेन चर्णखासम्भवात् । पञ्चमूलाध घृतं तैलं चूर्णश्च ॥३४॥ गङ्गाधरः-विदग्धाहारमूर्छितत्वेन ग्रहण्याश्रितदोषस्य विष्टम्भादिना लिङ्गेन आमलिङ्गमुक्तम् । सम्पति ग्रहणीदोषिणो विडामखलक्षणमाह-मज्जतीत्यादि। ग्रहणीदोषवतामामा विट् गुरुखाजले क्षिप्ता मज्जति। पका तु विद् अतिद्रवादिभिविना जले उत्प्लवते। अतिद्रवसंघातगैत्यश्लेष्मप्रदूषणात् पकापि जले मज्जति। पुरा त्वेवं सामं निरामश्च परीक्ष्य तत्रामदोषिणं विधिनामपाकविधिना सम्यक्पाचनेन औषधेन उपाचरेत्। निरामश्च पुनः इतरेण संशमनेनोपाचरेत् ॥३५॥ गङ्गाधरः-तत्र पाचनयोगमाह-चित्रकमित्यादि। चित्रकमूलादिचव्यान्तं चूर्ण बातश्लेष्मावृते ग्रहणीगदे तथा सामे ग्रहणीगदे केचित् सामे पुरीष इति वदन्ति । भामञ्च अनेकविधमाह । यहच्यते- 'आममन्नरसं केचित् केचित् तु मलसञ्चयम् । प्रथमं दोषदृष्टिञ्च केचिदामं प्रचक्षते'। भोजोऽप्याह-'आमाशयस्थः कायाग्नेदौर्बल्यादविपाचितः। आध भाहारधातुर्यः स आम इति संज्ञितः।' भद्रसेनोऽप्याह-एवमामाशयेऽप्यन्नं बहु सम्यक न जीयंति। चीयमानं तदेवान्न कालेनामत्वमाप्नुयात्' इत्यादि। तदिहापि तवचनप्रामाण्याद व्यवस्था कर्तव्या ॥३४॥ चक्रपाणिः-सामभिरामग्रहणीगदज्ञानार्थ सामनिरामविलक्षणमाह-मजतोत्यादि । आमात् गुरुत्वादिति आमाहितगुरुत्वात् । पक्क ति आमनिरामयोः द्वयोरपि आमपक्कलक्षणयोः अपवादमाहविनातिद्ववेत्यादि। अतिद्वत्वात् आमापि प्लवते। अतिसंहतत्वात् पक्कापि मजति। शैत्यश्लेष्मप्रदूषणात् पक्वापि निमजति। ननु सविष्टम्भप्रसेकार्तीत्यत्र सामस्य लक्षणमुक्तम्, किमनेन सामतालक्षणेन पुनरुक्तेन ? उच्यते, वातकफाधिकारात् तदुक्तं इदञ्च विज्ञानार्थमुक्तम् इति विशेषः। परीक्ष्येत्यादौ निरामं वा सदोपिणमिति। आमदोषशब्देन ग्रहणीदोषो नान्यत्र अभिप्रेतः ॥३५॥ चक्रपाणिा-चित्रकमित्यादी लवणानि चेत्यस कपिजलाधिकरणन्यायेम लवणक्षयमिच्छन्ति ३६९ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy