________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५ अध्यायः]]
१५श अध्यायः] चिकित्सितस्थानम्।
२६३६ चतुर्भागावशेषेण पचेत् तेन घृताढ़कम् । खजिंकायावशूकाख्यो क्षारौ दत्त्वा तु युक्तितः ॥ सैन्धवोदभिदसामुद्र-विड़ानां रोमकस्य च । ससौवर्चलपाक्यानां भागान् द्विपलिकान् पृथक् ॥ विनीय चूर्णितस्तिस्मात् पाययेत् प्रस्मृतं बुधः। करोत्यग्निबलं वर्ण वातघ्नं भक्तपाचनम् ॥ ३२॥
___ दशमूलाय घृतम्। वाषणत्रिफलाकल्के विल्वमात्रे गुड़ात् पले। सर्पिषोऽष्टपलं पत्तवा मात्रां मन्दानलः पिबेत् ॥३३॥
ऋषणाद्य घृतम्। द्वात्रिंशच्छरावमितानि। आरनालेन चतुर्दोणेन दना वा चतुर्दोणन सौवीरकेण वा चतुद्रोणेन पाचयेत्। चतुर्भागावशेषेण चतुःषष्टिशरावेण तेन काथेन घृतादकं षोड़शशरावं पचेत्। पक्चे पूते तत्र स्वर्जिकाक्षारयवक्षागै युक्तितो द्विपलात् किञ्चिन्नानौ सैन्धवादीनां पृथक् द्विपलिकान् भागान् चर्णितान् विनीय कल्कीकृत्य दत्त्वा पचेत्। पाक्यं लवणं पांशुज लवणम् । तस्मात् पकात् घृतात् प्रसृतं पलद्वयं बुधः पाययेदिति । बुध इत्युक्त्या यथाबलं पाययेदिति ख्यापितम् । शेषमाशीः। दशमूलाद्य घृतम् ॥३२॥
गङ्गाधरः-त्रापणेत्यादि। त्रिकटुत्रिफलयोमिलिखा विल्वमात्रे पलमात्र कल्के गुडाच्च पले कल्के घृतस्य अष्टपलं द्वात्रिंशत्पलजले पक्त्वा मात्रां मन्दानलः पिबेत् । ऋषणाद्य घृतम् ॥ ३३॥ द्रोणं मानं ग्राह्यम् । क्षारौ दत्त्वा च युक्तित इति अनेन क्षारयोरनल्पमानत्वमुच्यते, किन्तु प्रक्षेप्यान्यतमलवणमानेन पृथक् क्षारौ देयौ। युक्तित इत्यनेन योग्ये काले क्षारयोगमाह । स च योग्यकालः घृतावतारणकाल एव। यदाह जतूकर्णः। दशमूलं पञ्चकोलं कुलत्थं सुरभि थवम् । शणवीजञ्च कोलञ्च साधयेत् कालिकेन तु। दना सौवीरकेणैव तेन पक्वे घृताढ़के । द्वौ क्षारौ सप्तलवणं दापयेत् द्विपलान्वितम्। औदिदमुत्कार उत्कारिकालवणम्। रोमकं रुमाभवं, पाक्यं पाकजम् ॥३२॥
चक्रपाणिः-अष्टपले घृते विल्वमात इति पलमाने कल्के। अष्टपलमानमेवान सर्पिः पक्तव्यम् महर्षिवचनेन फलदायित्वात् ॥ ३३ ॥
For Private and Personal Use Only