SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org १५श अध्यायः चिकित्सितस्थानम् । २६२१ रसात् स्तन्यं स्त्रिया रक्तमस्सृजः कण्डराः सिराः। मांसाद वसा त्वचः षट् च मेदसः स्नायुसम्भवः ॥ १२॥ यत् प्रसादांशभूतं दहे वत्तते तदेवाधिष्ठितदिष्टं वीजरूपम्। स्त्रिया संसर्गे च्युतात् तस्माच्छुक्राद गर्भः स्यादिति प्रसादज उच्यते ॥११॥ गङ्गाधरः--एवं पुरुषवत स्त्रिया अपि चाहाराद रसादयः सप्त धातवः स्युः। तत्र विशेषमाह-रसात् स्तन्यं स्त्रिया रक्तमिति। स्त्रिया गर्भिण्या आहारजो रसस्त्रिधा भिद्यते, तस्यैकांशेन गर्भिण्याः गर्भपुष्टिरपरांशेन स्तन्यं प्रसादजं जायते । तत्-तृतीयांशो रक्तं द्वितीयधातुर्भवतीति पूर्वमुक्तं ; या खगर्भा तस्याश्च रसाद रक्तमिति। तदेव क्रमेण मांसादयो भूला शुक्रभावं गतं तच्छकं स्वगतामिना पकं प्रायेण भवत्यातवं रक्तं, स्वल्पन्तु शुक्र वत्तते। इत्येवमार्त्तवरक्ते मासेन जाते पूर्वमासजातमार्त्तवं प्रवर्तते वहिस्तदा स्त्रियमृतुमतीमाहुरिति स्त्रिया विशेषः। पुंसः शुक्रात् पुत्रदुहित्रोः सिरास्नायवस्थिधमन्यः रस एव रक्तं प्रथमं प्लावयति तत्र च रक्तस्थानसम्बन्धात् रक्तसादृश्यमनुभवति रक्तान रक्तसमानेनांशेन पोषयति। ततो मांसमाप्लाव्य मांसपोषणं करोति, मांससादृश्यमनुवदति । एवम् उत्तरोत्तरधातून् रस एवाप्लावयति वर्द्धयति च। यथा केदारनिषिक्तं कुल्याजलं प्रत्यासाकेदारं सर्पयित्वा क्रमेण केदारिकेतराणि पयसा प्लावयति, किंवा आहाररसः उत्पश्चः अभिन्नैरेव मार्गः रसरुधिरादीनि समानेनांशेन तर्पयति। तत्र च यः प्रत्यासनो धातुः तं शीघ्र पुष्णाति। यस्तु विरुद्धो धातुः तस्य भिन्नमार्गतया चिरेण पोषणं भवति । क्षिप्रचिरादिभेदेन शीघ्रचिरेण च गमनं भवति तद्वदिति ; क्षीरदधिन्यायात् केदारकुल्यान्यायात् खलेकपोतन्यायात् त्रेधा धातुपोषणक्रमः। तदेह शब्दार्थपालोचनया केदारकुल्यान्यायः क्षीरदधिन्यायो वा सङ्गतः। खलेकपोतन्यायस्तु दुर्घटः। रसादुक्तं प्रसादजमित्यर्थे उत्पादन शकम् । प्रपञ्चितन्चैतत् विविधाशितपोतीये तवैषोऽनुसरणीयः प्रपञ्चः। ननु विविधाशितपीतीये आहाररसाद रसादिपुष्टिरुक्ता पोष्यत्वादाहाररसात् रुधिरपोषको रसो भिन्न इत्यनेन तव रसद्वयं स्वीकृतम। इह तु एकरक्तपोषको रस इति कथं न विरोधः ? मैवं, तत्रापि आहाररसशब्देन आहारजः प्रसादोऽभिधीयते, स च रसग्रहणेन गृहीत एव। यतो द्विविधो रसः स्थायी पोषकश्चेति, तेन तत्र धातुरसपोषकरसांशयोः भेदविवक्षया भेद उक्तः । इह स्थायी पोषकरससारस्यैकतया निर्दिष्टयोः स्थायिरसपोषकरसभावयोः स्थानाग्निभावाद्यभावात् एकत्वम् एवं कृत्वा सप्तधातुकं शरीरमुच्यते। एतदपि विविधाशितपीतीये प्रपञ्चितम् ॥ ११ ॥ चक्रपाणिः-धातूनां पोषणमभिधाय उपधातुपोषणमाह-रसात् स्तन्यमित्यादि। रसात् स्तन्य प्रसादजं, ततस्तन्याद् रक्तं स्त्रीणाञ्चार्तवमिति। असृजः कण्डरादिस्थूलस्नायवः मेदसस्त्र सूक्ष्मस्नायुपोषणम् मेदसः स्नायुसम्भव इत्यनेन वक्तव्यम्। इह हि कण्डराशब्देन स्थूल For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy