SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २६१८ Acharya Shri Kailassagarsuri Gyanmandir चरक संहिता | भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः । पञ्चाहारगुणान् खान् खान् पार्थिवादीन् पचन्ति हि ॥ यथास्वैरेव पुष्यन्ते देहे द्रव्यगुणाः पृथक् । पार्थिवाः पार्थिवानेव शेषाः शेषांश्च कृत्स्नशः ॥ ६॥ [ ग्रहणीदोष चिकित्सितम् 5 गङ्गाधरः -- अस्तु, भुक्तान्नं कथं गन्धेन देहे गन्धं प्रीणाति रसेन र रूपेण रूपं स्पर्शन स्पर्श शब्देन शब्द गुरुत्वेन गुरुत्वमित्येवमादि कथं वा प्राणादीनिन्द्रियाणि च प्रीणाति न ह्यस्त्यन्नस्य प्राणा इन्द्रियञ्चेत्यत आहभौमेत्यादि । भूवहुलपाञ्चभौतिकेऽन्ने भौम उष्मा, अब्बहुलपाञ्चभौतिकेऽन्ने आप्य उष्मा, तेजोबहुलपाञ्चभोतिकेऽन्ने आग्नेय उष्मा, वायुबहुलपाञ्चभौतिकेऽन्ने वायव्य उष्मा, नभोबहुलपाञ्चभौतिकेऽन्ने नाभस उष्मेति पञ्चमाणः पार्थिवादीन् स्वान स्वान् पञ्चाहारगुणान् गन्धादीन् पृथिव्यादिपञ्चानां गुणान् हि यस्मात् पचन्ति तस्माद् यथास्वैरेव स्वेन स्वेन गुणेन देहे द्रव्यगुणाः पृथक् पुष्यन्ते । केन के गुणाः इत्यत आह- पार्थिवा इत्यादि । पार्थिवा आहारगुणाः गुरुखरकठिनमन्दस्थिरविशदसान्द्रस्थूलगन्धा देहे पार्थिवगुणान् गुरुखरादीन पोषयन्ति । गुरुत्वं गुरुत्वं देहस्य पुष्णाति, खरत्वं खरत्वं काठिन्यं काठिन्यं मान्य मान्द्य स्थैर्य स्थैर्य वैशद्य aar सान्द्रत्वं सान्द्रत्वं स्थौल्यं स्थौल्यं गन्धो गन्धमिति । एवं शेषा आप्यादयोऽन्नगुणा देहे आप्यादिगुणान् पोषयन्ति कृत्स्नश इति । तथाऽन्ने For Private and Personal Use Only चक्रपाणिः - भौतिक वह्निव्यापारमाह-भौमेत्यादि । भौमादयः पञ्चोष्माणः पार्थिवादिद्रव्यव्यवस्थिताः जाठराग्निसन्धुक्षितबलाः अन्तरीयं द्रव्यं पञ्चन्तः स्वान् स्वान् पार्थिवादीन् पूर्व पार्थिवगन्धत्वादिविलक्षणान् गुणान् निर्व्वर्णयन्ति । एतदेवाशितलीढपीतखादितं जन्तोर्हितम् अन्तरग्निसन्धुक्षितबलेन यथास्वेनोष्मणा सम्यग्विपच्यमानमिति । यद्यपि च भूताग्निना पार्थिवादिद्रव्यं पच्यते तथापि पार्थिवादिद्रव्याणां पाकेनैतदेव जननं यद्विशिष्टगुणयुक्तत्वं तेन पाकेन जन्यमानेऽपि द्रव्ये गुणा एव जन्यन्ते इत्यभिप्रायेण पार्थिवादीनाहारगुणान् जनयन्ति । अनेन गुणजननमेवाग्निनोच्यते न द्रव्यजननं, किंवा आहाराश्च गुणाश्चेति विग्रहादाहारशब्देन महाराधिकाररूपं द्रव्यमपि गृह्यते, पार्थिवादोनोति पार्थिवाप्यतैजसवायवीयनाभसानि । अस जाठराग्निः सव्वमेवाहाररसमलविपाकान् पचति । भौतिकास्त्वग्नयः स्वान् स्वन् गुणान् जनयन्ति । 1 * ययास्वं स्वच पुष्णन्त्याहारद्रव्यगुणाः पृथक । इति चक्रः ।
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy