SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४ अध्यायः चिकित्सितस्थानम् । २६०७ द्विप्रस्थं सलिलस्यैतत् क्षीरप्रस्थं विपाचयेत् । क्षीरशेषं कषायन्तु ततः कल्कैर्विमिश्रयेत् ॥ कल्काः शाल्मलिनि-साः समझा चन्दनोत्पलम् । वत्सकस्य च वीजानि प्रियङ्गुः पद्मकेशरम् ॥ पिच्छावस्तिरयं सिद्धः सक्षौद्रघृतशर्करः। प्रवाहिकागुदभ्रंश-रक्तस्त्राववरापहः ॥१४॥ पिच्छावस्तिः। प्रपौण्डरीक मधुकं पेष्यान् वस्तौ यथेरितान् । पिष्टानुवासनं स्नेहं क्षीरद्विगुणितं पचेत् ॥ १५ ॥ होवेरमुत्पलं लोध्र समङ्गाचव्यचन्दनम् । पाठा सातिविषा वित्वं धातकी देवदारु च ॥ दार्चीत्वक नागरं मांसो मुस्तं क्षारो यवाग्रजः। चित्रकश्चेति पेष्याणि चाङ्गेरीस्वरसे घृतम् ॥ मूलं पुष्पञ्च, न्यग्रोधादीनां शुङ्गाः। यवासादीनां शुङ्गान्तानां प्रत्येक द्विपलं कुट्टयिखा सलिलस्य द्विपस्थमष्टशरावं क्षीरस्य प्रस्थं चतुःशरावं विपाचयेत् । ततः क्षीरशेपं कषायं पूला वक्ष्यमाणैः कल्कैः विमिश्रयेत् । कल्कास्तु शाल्मलीनिर्यासा मोचरसा इत्यादीनां क्षीरपादिकाः कल्कास्तत्र क्षौद्रघृतशर्कराश्च मिश्रयिता नातिसान्द्रो नातितनुः कार्योऽयं पिच्छावस्तिः सिद्धः प्रवाहिकाद्यपहः। पिच्छावस्तिः ।। ९४॥ गङ्गाधरः-अनुवासनं स्नेहश्चाह-प्रपोण्डरीकमित्यादि। वस्तौ यथेरितान् पेष्यान्। इह पिच्छावस्तौ शाल्मलीनिऱ्यांसादीन् कल्कान् पिष्ट्वा क्षीरद्विगुणितं द्विगुणनलं स्नेहमुत्तमखाद रक्तहितखाच घृतमनुवासनं वातपयले रक्तार्शसि पचेत् । एषोऽपि स्नेहपिच्छावस्तिः॥९५॥ गङ्गाधरः-हीवेरमित्यादि। क्षार इत्यस्य विशेषणं यवाग्रजः। चित्रचक्रपाणिः-पिच्छावस्तिमाह-यवासेत्यादि। यबासो दुरालभा। अत्र च कल्कादिमानं वस्तिकत् विज्ञयम्॥ ९४ ॥ १५॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy