________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६०४
चरक-संहिता। अश्चिकित्सितम् नवनीतघृतं मांसं छागञ्च सषष्टिकः शालिः। तरुणश्च सुरामण्डस्तरुणी च सुरा निहन्त्यत्रम् ॥८५॥ प्रायेण वातबहुलान्यांसि भवन्त्यतिनुते रक्ते। दृष्टेऽपि हि कफपित्ते तस्मादनिलोऽधिको ज्ञेयः॥ दृष्टा तु रक्तपित्तं प्रबलं कफवातरूपमल्पश्च । शीता क्रिया प्रयोज्या यथेरिता वक्ष्यते यान्या॥८६॥ मधुकं सपञ्चवल्कं बदरीत्वगुडुम्बरधवपटोलम् । परिषेचने प्रयोज्यं वृषककुभयवासनिम्बाश्च ॥ ८७॥
गङ्गाधरः-नवनीतेत्यादि। नवनीतजं घृतम् । छागं मांसं षष्टिकधान्यं शालिधान्यञ्च। तरुणः सुरामण्डः। तरुणी सुरा च । प्रत्येकमस्रमीनिःसृतं निहन्ति ॥ ८५॥
गङ्गाधरः-प्रायेणेत्यादि। अशांस्यतिस्र ते रक्ते प्रायेण वातबहुलानि भवन्ति। तत्र कफपित्तेऽपि दृष्ट सति तस्मादतिस्र तरक्तेऽसि वातो. ऽधिको शेयः। दृष्ट त्यादि। अमेसि रक्तपित्तन्तु प्रबलं दृष्टा कफवातलिङ्गमल्पञ्च दृष्टा यथेरिता शीतक्रिया प्रयोज्या, या चान्या शीतक्रिया वक्ष्यते सापि प्रयोज्या ॥८६॥ __गङ्गाधरः-शीतक्रियाश्चाह-मधुकमित्यादि। पञ्चवल्कलं वटाश्वत्थप्लक्षकपीतन शिरीप वल्कलम्, उदुम्बरधवयोश्च खक, पटोलस्य पत्रम्। एतत्सर्च काथविधिना प्रबलरक्तपित्तेऽसि परिषेचने प्रयोज्यम् । वृषपत्रादयश्च काथविधिना परिषेचने प्रयोज्याः॥८७ ॥
चक्रपाणिः-दधिसरस्य मथितम् ॥ ८४ ॥
क्रपाणि:-नवनीत सद्यस्कशृतं नवशृतम् । अन्ये तु नवनीतं घृतं छागं वदन्ति । यथा आवी रक्तस्तम्भनामिका प्रोक्ता सा ॥ ८५ । ८६ ॥
चक्रपाणिः-यवासो दुरालभा ॥ ८७ ॥
For Private and Personal Use Only