SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ivश अध्यायः) चिकित्सितस्थानम्। २८६१ हरीतकीनां प्रस्थाई प्रस्थमामलकस्य च। स्यात् कपित्थाद् दशपलं पलाद्धेनेन्द्रवारुणी छ । विडङ्ग पिप्पली लोध्र मरिचं सैलबालुकम् । द्विपलांशं जलस्यैतञ्चतुर्दोणे विपाचयेत् ॥ . द्रोणशेषे रसे तस्मिन् पूतै शोते समावपेत् । गुडस्य द्विशतं तिष्ठेत् तत् पक्षं घृतभाजने ॥ पक्षादूद्धं भवेत् पेया ततो मात्रा यथाबलम् ।। अस्याभ्यासादरिष्टस्य गुदजा यान्ति संक्षयम् । ग्रहणोपाण्डुहृद्रोग-प्लीहगुल्मोदरापहः । कुष्ठशोथारुचिहरो बलवर्णाग्निवर्द्धनः॥ सिद्धोऽयमभयारिष्टः कामलाश्वित्रनाशनः । क्रिमिग्रन्थ्यब्बेदव्यङ्ग-राजयक्ष्मज्वरान्तकृत् ॥६१ ॥ अभयारिष्टः। गङ्गाधर:-हरीतकानामित्यादि। अस्थिहीनानां हरीतकीनां प्रस्थाईम् अष्टपलमामलकस्य च प्रस्थं पोड़शपलं कपित्थशस्याद दशपलम्। इन्द्रवारुणी पलान युक्ता। विगादीनां प्रत्येकं द्विपलांशमेतत् सर्वं जलस्य चतुर्दोणे षट्पञ्चाशदुत्तरद्विशतशरावे विपाचये। तस्मिन् रसे द्रोणशेषे चतुःषष्टिः शराबशेषे पूते शीते सति तत्र पुरातनगुडस्य द्विशतं पलं पञ्चविंशतिशरावे विनिक्षिपेत् । तत् सव्वं घृतभाजने पक्ष तिष्ठेद्वद्यः स्थापयेत् । पक्षाद्ध ततो यथाबलं मात्रा पेया भवेत्। अस्यारिष्टस्याभ्यासाद गुदजाः संक्षयं यान्ति। सिद्धोऽयमभयारिष्टो ग्रहण्याद्यापहः कुष्ठादिहरो बलवर्णवद्धनः कामलादिनाशनः क्रिम्याद्यन्तकृत् । अभयारिष्टः ॥ ६१ ।। पाणिः-हरीतक्यादिना अभयारिष्टादयः पञ्चारिष्टा उच्यन्ते ॥ ६१॥ . * "पलानेन्द्रवारुणी" इत्यत्र "ततोऽर्दा चन्द्रवारुणी" इति चक्रतः पाठः। वागभस्तु "प्रस्थं पात्रा वशपलं कपित्थानो ततोऽतः। विशालाम्-" इत्याह। अयन्तु पाठः वृन्दसम्मतः। For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy