SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८७६ चरक-संहिता। [ अशश्चिकित्सितम् शिरीषवीजं कुष्ठश्च पिप्पल्यः सैन्धवं गुड़ः। अर्कतीरं सुधाक्षीरं त्रिफला च प्रलेपनम् ॥ पिप्पल्यश्चित्रकः श्यामा किण्वं मदनतण्डुलाः । प्रलेपः कुक्कुटशकूद-हरिद्रागुड़संयुतः ॥ दन्ती श्यामा-8-मृतासंज्ञः पारावतशकृद् गुड़ः। प्रलेपः स्याद् गजास्थीनि निम्बो भल्लातकानि च ॥ प्रलेपः स्यादलं कोष्णो वासन्तकवसायुतः। शूलश्वयथुहृदयुक्तश्चुलुकीवसया सह ॥ अर्कपत्रं सुधाकाण्डं कटुकालाबुपल्लवाः । करो वस्तमूत्रञ्च लेपनं श्रेष्ठमर्शसाम् ॥ ३१॥ अभ्यङ्गायाः प्रदेहान्ता यत्र ते परिकीर्तिताः । स्तम्भश्वयथुकण्डर्त्ति-नाशनास्तेऽर्शसां हिताः॥ पित्तादिना अपरं प्रलेपनम् । शिरीषेत्यादि । शिरीषवीजादीनि दश समानानि पिष्ट्वा प्रलेपनम् । पिप्पल्य इत्यादि। किण्वं सुराकिण्वम् । श्यामा त्रित् । मदनतण्डुला मदनफलवीजानि। पिप्पल्यायष्टभिः प्रलेपः। दन्तीत्यादि। दन्त्यादिभिः पञ्चभिरेका प्रलेपः। गजास्थिनिम्बभल्लातकवीजैरपरः प्रलेपः । प्रलेप इत्यादि । अलं हरितालम् । वासन्तकवसायुत उष्ट्रवसायुतः कोष्णः प्रलेपः स्यात्। चलकी शिशुमारस्तद्वसया सह अलं हरितालं, कोष्णः प्रलेपः शूल. श्वयथुहृत् स्यात्। अकेपत्रमित्यादि। कटकालाव्वाः पल्लवाः पञ्चभिरके लेपनम् ॥ ३१॥ गङ्गाधरः-अभ्यङ्गाद्या इत्यादि। चित्रलादय एतदन्ता ये योगाः चक्रपाणिः-किण्वं सुरावीजम् । मदनतण्डुलाः मदनफलशस्यम् । निकुम्भी दन्ती, अमृता गुड़ चो, अलं हरितालं, वासन्तकवसा उष्ट्रवसा, कटुकालाबूस्तिक्तकोऽलाबुः ॥३१॥ दन्तोश्यामामृतासंज्ञः इत्यस निकुम्भी सामृतासंज्ञः इति चक्रसम्मतः पाठः । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy