________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४श अध्यायः]
चिकित्सितस्थानम् ।
२८७३ पुनर्विरोहो रूढ़ानां क्लदो भ्रशो गुदस्य वा। मरणं वा भवेच्छीघ्र शस्त्रनाराग्निविभ्रमात् ॥ २५ ॥ यत् तु कर्म सुखोपायमल्पभ्रशमदारुणम् । तदर्शसां प्रवक्ष्यामि समूलानां निवृत्तये ॥ २६ ॥ वातश्लेष्मोल्वणान्याहुः शुष्काण्यशांसि तद्विदः। प्रस्रावीणि तथााणि रक्तपित्तोल्वणानि च। ततः शुष्कार्शसां पूर्व प्रवक्ष्यामि चिकित्सितम् ॥ २७ ॥ स्तब्धानि स्वेदयेत् पूर्व शोथशूलान्वितानि च । चित्रकक्षारविल्वानां तैलेनाभ्यज्य स्वेदयेत् ॥ यवमाषकुलत्थानां पुलाकानामयोदृशत्
गोखराश्वशकृत्पिण्डैस्तिलकल्कैस्तुषैस्तथा ॥ इत्यत आह-स्त्वेत्यादि। पुंस्त्वोपघातादयः शस्त्रक्षाराग्निविभ्रमाच्छीघ्र भवेयुः। गुदवेगविनिग्रहः पुरीषवेगो गुदेन यद्भवति तद्विनिग्रहः स्यात् । पुनर्विरोहोऽर्शसां छिन्नानां क्षारदग्धानामग्निदग्धानाश्च पुनरुत्पत्तिः स्यात् । रूढानाञ्च क्लेदो गुदस्य वा भ्रंशः मरणं वा भवेदिति ॥२५॥
गङ्गाधरः-तप्रनपायि किं कम्मेत्यत आह-यत् तु कम्मेत्यादि। अल्पभ्रंशमल्पक्लेशकरं, समूलानां कारणसहितानामर्शसां निवृत्तये॥२६॥
गङ्गाधरः-तद्यथा-वातेत्यादि। यान्यांसि वातश्लेष्मोल्वणानि तानि शुष्काण्यांसि तद्विदो वैद्या आहुः। रक्तपित्तोल्वणानि तु यान्यशासि तानि प्रस्रावीणि तथा णीति चाहुः। तत इत्यादि। ततः पूर्वं शुष्कार्शसां चिकित्सितं प्रवक्ष्यामि ॥२७॥
गङ्गाधरः-तद् यथा-स्तब्धानीत्यादि। शोथशूलान्वितानि अशःस्वेव शोथश्च शुलश्च स्तब्धता च यदि वत्तते तदा चित्रकादितैलेनाभ्यज्य यवमाषभूरिनन्तः । अयं प्रकरणार्थः-शिक्षितेनैव शस्त्रकर्म विधानतः कर्त्तव्यम्। विरोह इति रूदानां रूदवणानाम् ॥ २३-२६॥
चक्रपाणिः-वासश्लेष्मोल्वणानीत्यत्र यद्यपि कफजे नाव उक्तः तथापि, पिच्छारूपानुबन्धः तेन शुष्कार्थीग्रहणम्। शुष्का कारणे मेलकेऽपि भवति ॥ २७ ॥
For Private and Personal Use Only