________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४ अध्यायः !
चिकित्सितस्थानम् ।
हस्ते पादे मुखे नाभ्यां गुदे वृषणयोस्तथा । शोथो हृत्पार्श्वशलञ्च यस्यासाध्योऽर्शसो हि सः ॥ हृत्पार्श्वशूलं सम्मोहरईि रङ्गस्य रुग् ज्वरः । तृष्णा गुदस्य पाकश्च निहन्युर्गदजातुरम् ॥ १६ ॥ सहजानि त्रिदोषाणि यानि चाभ्यन्तरां बलिम् । जायन्तेऽसि संश्रित्य तान्यसाध्यानि निर्दिशेत् ॥ २० ॥ शेषत्वादायुषस्तानि चतुष्पादसमन्विते ।
Acharya Shri Kailassagarsuri Gyanmandir
२८७१
20
याप्यन्तै दोप्तकायाग्नेः प्रत्याख्येयान्यतोऽन्यथा ॥ २१ ॥ द्वन्द्वजानि द्वितीयायां बलौ यान्याश्रितानि च । कुच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च ॥ २२ ॥
For Private and Personal Use Only
गङ्गाधर' - असाध्यलक्षणमाह - हस्ते पादे इत्यादि । यस्य जनस्य हस्तपादादिषु शोथो हत्पार्श्वशुलञ्च सोऽर्शसो जनोऽसाध्यः । हृदित्याद्यपरमसाध्यलक्षणम् । यस्य हृच्छलादीनि सन्ति तं गुदजातुरं तानि निहन्युः । अपरञ्चाहसहजानीत्यादि । अभ्यन्तरां तृतीयां बलिम् ।। १९ । २० ।।
गङ्गाधरः- नन्वेतानि किं प्रत्याख्येयानि याप्यानि वेत्यत आह-शेषत्वात् इत्यादि। आयुषः शेषो यदि वर्त्तते चतुष्पाद्भेषजं च युज्यते पुरुषश्च दीप्तजाठराग्निर्भवति तदाभिहितान्यसाध्यानि याप्यन्ते शेषायुष्कालयापनया वर्त्तन्ते, अतोऽन्यथायुषोऽवशेषाभावात् प्रत्याख्येयानि त्याज्यानि चतुष्पाद्भेषजसमवायेऽपि वैदेरिति ॥ २१ ॥
गङ्गाधरः- कृच्छ्रसाध्यतामाह - द्वन्द्वजानीत्यादि । प्रथमायां बलौ यानि द्वन्द्वजान्यसि तानि कृच्छ्रसाध्यान्याहु र भ्यन्तर वलिजानाम् असाध्यत्वेन उक्तत्वात् । तर्हि द्वितीयायां बलौ जातानि किं साध्यानीत्यत आहद्वितीयायां बलावाश्रितानि यानि खल्वेकदोषजानि तानि कृच्छ्रसाध्यान्याहुः
चक्रपाणि: - हस्ते इत्यादिना असाध्यविभागमाह । अङ्गस्य रुगिति सर्व्वाङ्गरुक ॥ १९ ॥ २० ॥ चक्रपाणिः - शेषत्वादायुष इति आयुषः शेषे इत्यर्थः । समन्वित इति भावे क्तः । तेन चतुः पादसमन्वये सतीत्यर्थः ॥ २१ ॥ २२ ॥