SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४श अध्यायः] चिकित्सितस्थानम्। २८६३ . अत ऊर्द्ध जातस्योत्तरकालजातानि चाशीसि व्याख्यास्यामः। गुरुशीताभिष्यन्दिविदाहिविरुद्धाजीर्णप्रमिताशनासात्म्यभोजनाद् गव्यमात्स्यकौक्क टवाराहमाहिषाजाविकपिशितभक्षणात् कृशशुष्कपूतिमांसपैष्टिकपरमानक्षीरदधिमण्डकतिलगुड़विकृतिसेवनाच्च माषयूषेक्षुरसपिण्याकपिण्डालुशुष्कशाकशुक्तकिलाटतक्रपिण्डकविसमृणालशालूकक्रौञ्चादनकशेरुकशृङ्गाटकतरूटविरूढ़नक्शूकशमीधान्याममूलकोपयोगात् गुरुफलशाक-रागहरित-करमईकवसाशिरस्पदपर्युषितपूतिशीतान्नसंकीर्णाभ्यवहारात्मन्दकातिक्रान्तमद्यपानाद व्यापन्नगुरुसलिलपानात् अतिस्नेहपानाद असंशोधनाद वस्तिकमविभ्रमादव्यायामाव्यवायात् दिवास्वप्नात् सुखशयनासनस्थानसेवनाच गङ्गाधरः-अतऊर्द्धमिति । अतःपरं जातस्योत्तरकालजान्यशांसि व्याख्यास्यामः। गुरुशीतेत्यादि। गुर्वादिद्रव्यभोजनात् गव्यमांसादिभक्षणात् कृशशुष्कशरीरस्य जन्तोमांससेवनात् पूतिमांससेवनाच पैष्टिकमद्यादिसेवनाच माषयषादुरपयोगाच ; पिण्याकस्तिलकल्कः, पिण्डालुवत्तलाकार आलः, शुक्तं सन्धान विशेषः, किलाटस्तक्रकूच्चिका, तक्रपिण्डको भक्ष्यविशेषः, विसं वृहन्मृणालं, मृणालं क्षुद्रं, पद्मादीनां कन्दः शालक, क्रौश्चादनो घेञ्चुलुकः, तरुटः चिचुया, विरूढच नवञ्च शूकशमीधान्यम्, आममूलकम्, एषामुपयोगात् ; गुरुफलशाकयोः राग आचार इति लोके, हरितानि शृङ्गवेरधान्यमधुरिकादीनि, करमईः करञ्जः। वसा वपा जन्तूनां मांसार्थ शिरस्पदं, पय्यु. षितश्च पूति च शीतश्चान्नस्य सङ्कीर्णस्य मिलितनानाद्रव्यस्याभ्यवहारात, मन्दकं मन्दजातमतिक्रान्तं कालातिक्रमेण स्वगुणहीनञ्च मद्यम्, व्यापन्नं स्वगुणशीताव्यक्तरसादितो व्यापदयुक्तं स्थानादियोगाद गुरु च सलिलम्, अतिस्नेहपानादवमन विरेचनात्, वस्तिकर्मणो विभ्रमाद् अयथावत चक्रपाणिः-गुरुशीतेत्यादौ प्रमितमल्पम्, कृशं दुर्बलं, परमान्नं पायस, पिल्याकं तिलकल्कः । किलाटो नष्टक्षीरपिण्डस्तक्रपिण्डस्तु तक्रजो धनभागः। विसं स्थूलं मृणालम्, मृणालं क्षुद्रम्, क्रौञ्चादनं घेन्चुलिक इति ख्यातः। तरूट निष्कारकः। संकीर्णमांसभक्तादि मिश्रप्रकृतिकमन्नं For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy