________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३श अध्यायः] चिकित्सितस्थानम्।
२८५७ प्रयोगापचिताङ्गानां हितं हादरिणां पयः। सर्वधातुक्षयार्सानां देवानाममृतं यथा ॥२॥
भवतश्चात्र। हेतु प्राय पमष्टानां लिङ्गं व्याससमासतः। उपद्रवान् गरीयस्त्वं साध्यासाध्यत्वमेव च ॥ जाताजाताम्बुलिङ्गानि चिकित्साञ्चोक्तवानृषिः । समासव्यासनिर्देशैरुदराणां चिकित्सिते ॥ ६३ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने उदरचिकित्सितं नाम त्रयोदशोऽध्यायः ॥ १३ ॥
तत्फलमाह-प्रयोगेत्यादि। विरेचनादिनानाप्रयोगैरपचिताङ्गानां क्षीणाङ्गानां उदरिणां सर्वधातुक्षयार्त्तानां प्रभावात् पयो हितं यथा देवानाममृतं हितमिति ॥९२॥
गङ्गाधरः-अथाभ्यायाथमाह-भवतश्चात्र। हेतुमित्यादि ॥९३॥ इति वैद्यश्रीगङ्गाधरकविराजकविरत्नविरचिते चरकजल्पकल्पतरौ षष्ठस्कन्धे चिकित्सितस्थानजल्पे उदरचिकित्सितजल्पाख्या
त्रयोदशी शाखा ॥१३॥
चक्रपाणिः-प्रयोगापचिताङ्गानामिति प्रयोगैः क्षीणदेहानाम् ॥ ९२ ॥ चक्रपाणिः-हेतुमित्यादिना संग्रहं ब्रूते। संग्रहार्थश्चाध्यायोक्तोऽनुसरणीयः ॥ ९३ ॥ इति महामहोपाध्याय-चरकचतुरानन-श्रीमञ्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां घरकतात्पर्यटोकायां चिकित्सितस्थानव्याख्यायाम् उदरचिकित्सितं
नाम बयोदशोऽध्यायः ॥ १३॥
For Private and Personal Use Only