SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३ग अध्यायः] चिकित्सितस्थानम्। २८५१ त्रिवृताशङ्खिनीदन्ती-सुधापूतीकपल्लवैः। शाकं पक्त्वा प्रयुञ्जीत प्रागभक्तं गाढवर्चसि ॥ ततोऽस्मै शिथिलीभूत-बच्चोंदोषाय शास्त्रवित् । दद्यान्मूत्रयुतं क्षीरं दोषशेषहरं परम् ॥२०॥ पार्श्वशूलमूरुस्तम्भं ॐ हृदग्रहञ्चापि मारुतः। जनयेत् तस्य तत् तैलं विल्वक्षारेण पाययेत् ॥८१॥ तथाग्निमन्थश्योनाक-पलाशतिलनालनैः। बलाकदल्यपामार्ग क्षारैः प्रत्येकशः शृतैः॥ तैलं पक्त्वा भिषग् दद्यादुदराणां निवृत्तये । निवर्त्तते चोदरिणां हृदग्रहश्चानिलोद्भवः ॥२॥ गङ्गाधरः-त्रितेत्यादि। त्रितादीनां पल्लवैः शाकं पक्त्वा गावच सि उदरिणि प्रागभक्तं प्रयुञ्जीत । ततस्तेन भुक्तेन शाकेन शिथिलीभूतवर्चीदोषायास्मा उदरिणे जनाय शास्त्रविद् वैद्यो मूत्रयुतं क्षीरं दद्यात्। तत् तु परं दोषशेषहरम् ।। ८०॥ गङ्गाधरः-पाश्वेत्यादि। उदरिणो मारुतो यदि पार्चशूलादिकं जनयेत् तदा तस्य तत् तैलं त्रितादीनां वीजानां तैलं विल्वक्षारेण पाययेत् ॥ ८१॥ गङ्गाधरः-तथेति। अग्निमन्थादीनां नालजैः क्षारैर्बलाक्षारकदली. क्षारापामागेक्षाः प्रत्येकशः शृतैः एकैकं क्षारमष्टगुणे जले पक्त्वा चतुर्थांशशेषैः शृतैस्तैलाच्चतुगुणस्तिलतैलं पक्त्वा भिषगुदराणां निवृत्तये दद्यात् ।। ८२॥ चक्रपाणिः-पार्वेत्यादौ उपस्तम्भमिति उपस्तम्भः उपशब्दः समीपवाची। विल्वक्षारेण इति विल्वफलदाहात् कृतेन क्षारेण सिद्धं तैलं पाययेत् । तथा तिलनालजैः क्षारैः सिद्धं तैलं पाययेदिति सम्बन्धः॥८०-८२ ॥ * अरुस्तम्भमित्यत्र उपस्तम्भमिति चक्रः । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy