SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८४२ चरक-संहिता। [उदरचिकित्सितम् यवकोलकुलत्थानां पञ्चमूलतेन च । सुरासौवीरकाभ्याश्च सिद्धं वाथ पिबेद घृतम् ॥ ४॥ एभिः स्निग्धाय सञ्जाते बले शान्ते च मारुते । शस्ते दोषाशये ® दद्यात् कल्पदृष्टं विरेचनम् ॥६५॥ पटोलमूलं रजनी विङ्ग त्रिफलात्वचम् । कम्पिल्लकं नीलिनी च त्रिवृतञ्चेति चूर्णयेत् ॥ षडाद्यान् कार्षिकानन्त्यांस्त्रींश्च द्वित्रिचतुर्गणान् । कृत्वा चूर्ण ततो मुष्टिं गवां मूत्रेण ना पिबेत् ॥ विरिक्तो मृदु भूञ्जीत भोजनं जाङ्गलै रसैः। मण्डं पेयाश्च पीत्वा च सव्योषं षड़हं पयः॥ गङ्गाधरः-यवकोलेत्यादि। यवादीनां प्रत्येकं पल कल्के वृहत्पश्चमूल. मृतेन कान सुरासौवीरकाभ्याञ्च मिलिखा त्रयाणां घृताच्चतुगु णे सिद्धं घृतं जठरी पिबेत्। यवादिघृतम् ॥ ६४॥ गङ्गाधरः-एमिरित्यादि। रुक्षबहुवातजोदरिणे एभिः पिप्पल्यादिभितः स्निग्धाय बले सञ्जाते मारुते प्रशान्त दोषाशये शस्ते सति कल्पदृष्टं कल्पस्थाने वक्ष्यमाणमुदरहितं विरेचनं दद्यात् ॥६५॥ गङ्गाधरः-इहापि किञ्चिद्विरेचनमाह-पटोलमूलमित्यादि। त्रिफलाया फलबचः। एषां षण्णामाद्यानां कार्षिको भागः प्रत्येकं कम्पिल्लकादीनां त्रयाणां क्रमेण द्वित्रिचतुःकार्षिका भागाः सर्व चर्णीकृत्य मिश्रयिखा मुष्टिं पलिकं चर्णमिति बलवत्पुरुषाभिप्रायेण साम्प्रतिकपुरुष प्रति बलदोषाववेक्ष्य कर्षादिकं गोमूत्रेण पिवेत्। सम्यग्विरिक्तस्तु मण्डं पेयाश्च पीला जाङ्गलैः चक्रपाणि:-दोषाशय इति दोषः स्नेहेन विमुक्तबन्धनत्वात् त्रस्त इत्यर्थः ॥ ६॥६५॥ चक पाणिः–पटोलेल्यादौ पड़ाद्यान् कार्षिकानित्यनेन त्रिफलायाः त्वचा समं पणां प्रत्येक कार्षिकत्वं, कम्पिल्लकादीनां चूर्णानां यथाक्रमं द्वित्रिचतुर्गुणत्वम्। मुष्टिमिति पलम् । सम्योर्ष षड्हं शृतं पयः पिबेदिति विरेचनदिने मण्डपेयानामन्यतमम् अग्न्यपेक्षया कर्तव्यम्। तत उद्ध • शस्ते दोषाशये इत्यत्र सस्ते दोषाशये इति पाठश्चक्रे । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy