________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३श अध्यायः] चिकित्सितस्थानम् ।
२८३७ अपां दोषहराण्यादौ प्रदद्यादुदकोदरे। मूत्रयुक्तानि तीक्ष्णानि विविधक्षारवन्ति च ॥ दीपनीयः कफघ्नेश्च तमाहारैरुपाचरेत् । द्रवेभ्यश्चोदकादिभ्यो नियच्छेदनुपूर्वशः ॥ ५२ ॥ सर्वमेवोदरं प्रायो दोषसंघातजं मतम् । तस्माद वातादिशमनी क्रियां सर्वत्र कारयेत् ॥ ५३ ॥ दोषैः कुक्षौ हि संपूर्णे वहिर्मन्दत्वमृच्छति । तस्माद् योज्यानि भोज्यानि * दीपनानि लघूनि च ॥ रक्तशालीन् यवान् मुद्ान् जाङ्गलांश्च मृगद्विजान् । पयोमूत्रासवारिष्टान् मधुसीधूनि चाप्नुयात् ॥ गङ्गाधरः-अथोदकोदरचिकित्सितमाह-अपामित्यादि। उदकोदरे भिषक आदावपां दोपहराणि तीक्ष्णानि द्रव्याणि गोमूत्रयुक्तानि विविधक्षारवन्ति च प्रदद्यात्। कफघ्नैर्दीपनीयश्चाहारैस्तं जलोदरिणमुपाचरेत् । अनुपूर्वशः क्रमेणोदकादिभ्यो द्रवद्रव्येभ्यो नियच्छेत् निवत्तयेदिति ॥५२॥
गङ्गाधरः-सर्वमेवेत्यादि । दोषसंघातजं त्रिदोषजं प्रायः कचिदन्यथापि । तस्माद वातादित्रिदोषशमनी क्रियां सर्वत्रोदरे कारयेत् ॥५३॥
गङ्गाधरः--दोषैरित्यादि। दीपनलधून्यन्नान्याह-रक्तशालीनित्यादि । चक्रपाणिः-अपामित्यादिना उत्पत्तिविशिष्टदकोदरचिकित्सामाह। अपां दोषहराणि इति वदन्ति । उदकादिभ्य इति उदकप्रकारेभ्योऽवान्तरेभ्यः । नियच्छेदिति निवर्तयेत् । अनुपूवंश इति क्रमेण ॥५२॥ ...
चक्रपाणिः-निव-यन्नव सर्वोदरसाधारणी चिकित्सां वक्तमाह-समित्यादिना ॥ ५३ ॥
• तस्माद् योज्यानि भोज्यानि इत्यत्र तस्माद भोज्यानि भोज्यानि इति चक्रसम्मतः पाठः ।
For Private and Personal Use Only