SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३श अध्यायः]. चिकित्सितस्थानम् । २८२५ स्नेहपीतस्य मन्दाग्नेः क्षीणस्यातिकृशस्य च। अत्यम्बुपानान्नष्टोऽग्नौ मारुतः क्लोम्न्यवस्थितः ॥ स्रोतःसु रुद्धमार्गेषु कफश्चोदकमूर्च्छितः। . वर्द्धयेतां तदेवाम्बु स्वस्थानादुदराय तौ ॥ २४ ॥ तस्य रूपाणि-निरन्नकाङ्क्षा पिपासा गुदनावः शूलः श्वासकासदौर्बल्यानि, अपि चोदरं नानावर्णराजोसिरासन्ततम् उदकपूर्णदृतिसंक्षोभसंस्पर्शम् । इत्येतदकोदरमिति विद्यात् ॥२५ " तत्र चिरोत्पन्नमनुपद्रवमनुदकपूर्ण-छ-मुदरं त्वरमाणश्चिकित् गङ्गाधरः-अथोदकोदरमाह-स्नेहपीतस्येत्यादि। स्नेहः पीतो येनेति । परनिपातः क्तान्तस्य विशेषणस्यापि क्वचिद् भवतीति शापितमाच्छादनजातिवजजातिवाचिपूर्वकक्तान्तात् स्त्रियां ङीब विधानात् ; यथा शङ्खभिन्नी नारी, इक्षुभक्षिती धेनुरिति । स्नेहपीतस्य संशोधनाङ्गस्नेहक्रियायां पीतस्नेहस्य अत्यम्बुपानात् तथा मन्दारन्यादेश्चात्यम्बुपानादग्नौ नष्टे सति क्लोन्नि पिपासास्थाने कण्ठोरसोः सन्धाववस्थितो मारुतः पीततदत्यम्बुना रुद्धमागेषु स्रोतःस्यवस्थितः कफश्च तदुदकमूच्छितस्तेन पीतेनात्यम्धुना संमिलितीभावेन विकृतिमापनश्चेति। तो मारुतकफौ तदेवाम्बु उदराय स्वस्थानाद बद्धं येताम् । इति सहेतूदकोदरसम्प्राप्तिः ॥२४॥ गङ्गाधरः-तस्य रूपाणीत्युदकोदरस्य रूपाणि । तद्यथा-निरन्नेत्यादि। निरन्न आहाराशक्तिः परन्खाकाङ्क्षाहारार्थम्। उदरमपि च नानावर्णराजीसिरासन्ततश्च उदकपूर्णदृतिर्यथा संस्पृश्यते तथा संस्पर्शम्। इत्येतद् दफोदरमिति विद्यात्। संशायामुदकशब्दस्यादिवर्णलोपः पृषोदरादिखादिति ॥२५॥ गङ्गाधरः-इत्युदरनिदानमुक्त्वा चिकित्सार्थं साध्यासाध्यलक्षणमाह-. तत्रेत्यादि। तत्राष्टसुदररोगेषु मध्ये यदुदरमरिचोत्पन्नादिकं तदेव खरमाणः चक्रपाणिः- स्नेहेत्यादिना उत्पत्तिविशिष्टं जलोदरमाह । क्लोम हृदयावयवविशेषः । वर्दयेताम् इति यथोक्तौ कफमारुतौ। तयोश्वाम्बुवर्द्धकत्वं पिपासाजननेनाम्बपानादेरिति ज्ञेयम् ॥ २४॥२५॥ * "अनुदकपूर्णम्" इत्यत्र "अनुदकप्राप्तम्" इति चक्रः । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy