SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८२० चरक-संहिता। ( उदरचिकित्सितम् ___तस्य रूपाणि-गौरवारोचकाविपाकाङ्गमर्दाः सुप्तिपाणिपादमुष्कोरशोफोक्लेशनिद्राकासश्वासाः शुक्लत्वञ्च नयननख. वदनत्वङ मूत्रवर्चसाम् अपि चोदरं शुक्लराजीसिरासन्ततं गुरु स्तिमितं स्थिरं कठिनं भवति। इति श्लेष्मोदरमिति विद्यात् ॥ १५॥ दुर्बलाग्नेरपथ्यादि-विरोधिगुरुभोजनात् । स्त्रीदत्तैश्च रजोलोम-विणमूत्रास्थिनखादिभिः॥ विषैश्च मन्दैताद्याः कुपिताः सञ्चयं त्रयः। शनैः कोष्ठे प्रकुर्वन्तो जनयन्त्युदरं नृणाम् ॥ १६ ॥ गङ्गाधर:- तस्य रूपाणीति श्लेष्मोदररूपाणि। यथा-गौरवेत्यादि । गौरवश्व गात्रस्य, अरोचकश्चाविपाकश्चाङ्गमईश्व। सुप्तिश्च स्पर्शानभिनता। पाण्यादिषु शोफश्च । उत्क्लेशश्च हृदयस्थदोषस्य। निद्रा च कासश्च श्वासश्च । नयनादीनां शुक्लखमपि चोदरं शुक्लराजोसन्ततं शुक्लशिरासन्ततश्च गुरु च स्तिमितश्च स्थिरञ्च कठिनश्च भवति । इत्येतत् श्लेष्मोदरीमति विद्यात् ॥१५॥ गङ्गाधरः सन्निपासोदरमाह-दुर्बलाग्नेरित्यादि । दुर्बलोऽमिर्यस्य तस्य। अपथ्यभोजनदुष्टभोजनसंयोगविरोधिद्रव्यभोजनगुरुभोजनात्। स्त्रीभिदुष्ट स्वभावाभिर्वशीकरणाद्यर्थ दत्तभॊज्यादिद्रव्यसहित रजोलोमादिभिः शत्रुभिश्च दत्तर्मन्दमन्दवेगेविहेतुभिः कुपिता वाताधास्त्रयः शनः कोष्ठे सञ्चयं कुर्वन्तो मृणामुदरं जनयन्ति। इति सन्निपातोदरस्य सहेतुः सम्माप्तिः ॥१६॥ . चक्रपाणिः-दुर्बलाग्नेरित्यादिना स्त्रीदत्तैरिति स्त्रीभिः अज्ञानात् सौभाग्याथै रमप्रतिदान प्रायो भवतीति स्त्रीणामभिधानम् उपलक्षणार्थ तेनान्यदत्तानामपि रजःप्रभृतीनां ग्रहणं भवत्येव । विषश्च मन्दैरिति दूषीविषैः। दूषीविषाव्येव हि मन्दानि भवन्ति । सय इति पदेन वातादीना तयाणामपि भस्वातन्त्र्येण ग्रहणं करोति ॥ १५ ॥ १६ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy