SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२श अध्यायः चिकित्सितस्थानम् । २८०१ कुलत्थयूषश्च सपिप्पलोको मौद्गस्तु सत्षणयावशकः । रसांस्तथा विष्किरजाङ्गलानां सकूर्मगोधाशिखिशल्लकानाम् ॥ सुवच्चेला ® गृञ्जनकं पटोलं सवायसीमूलकवेत्रनिम्बम् । शाकार्थिनां शामिति प्रशस्तं भोज्य पुराणश्च यवः सशालिः॥३६ आभ्यन्तरं भेषजमुक्तमेतद् वहिर्हितं यच्छृणु तद् यथावत् । स्नेहान् प्रदेहान् परिषेचनानि स्वेदश्च वातप्रबलरय कुर्यात् ॥४० शैलेयकुष्ठागुरुदारुकौन्ती-त्वपद्मकैलाम्बुपलाशमुस्तैः । प्रियङ्गुथौणेयकहेममांसी-तालोशपत्रप्नवपत्रधान्यैः॥ श्रीवेष्टकध्यामकपिप्पलीभिः पृक्कानश्चैव यथोपलाभम् । वातन्वितेऽभ्यङ्गमुशन्ति तैलं सिद्धं सुपिष्टैरपि च प्रदेहम् ॥४१॥ शैलेयादितैलप्रदेहो। गाधरः-कुलत्थेत्यादि। सपिप्पलीकः पिप्पल्याः कल्केन कषायेण वा सिद्धः कुलत्थयूषः। साषणयावशूको मौद्गो यूषत्रिकटयवक्षाराणां कल्केन कषायेण वा सिद्धः । विष्किरादीनां मांसरसाश्च शोफिनो हिताः । अब्जत्वेऽपि कूर्मास्यापवादोऽयम् । शल्लकः शेजाड़ इति ख्यातः। सुवच्चलेत्यादि । सुवच्चेला सूर्यमुखी, वायसी काकमाची, मूलकं वालमूलं न तु गृहन्मूलम् । शुष्कवृहन्मूलं वा। शाकार्थिनां शोफिनामिदं शाकम् । भोज्ये तु यवश्व पुराणः शालिश्च पुराण इति ॥३९॥ गङ्गाधरः-आभ्यन्तरमित्यादि। शोफिनामाभ्यन्तरं भेषजमुक्तम् अतः परं वहिहितं भेषजं यथावत् तच्च शृण। वातप्रबलस्य शोथस्य स्नेहादीन् कुर्यात् ॥४० गङ्गाधरः-स्नेहप्रदेहावाह-शैलेयेत्यादि। पद्मकं पद्मकाष्ठं, पलाशः शटी, थोणेयक ग्रन्थिपर्ण, छान्दसखात् सकारलोपः। हेम नागकेशरं, प्लवः कैवत चक्रपाणिः-सकूमकेत्यादौ फूर्मविधानं मत्स्यमांसनिषेधेऽपि अपवादरूपं ज्ञयम् । शल्लक शलली-( सजार )-संज्ञः। सुवर्चिका सूर्य्यावर्तः। गृजनक रसोनका किंवा गृजन शोभाजनम् । वायसी काकमाची। वहिहि तदिति भेषजम् ॥ ३९ ॥ ४०॥ चक्रपाणिः-शैलेयेत्यादौ पलाशः शटी। तैलं सिद्धम् । सुपिष्टैरिति शैलेयादिभिः सुपिष्टैस्तैलं सिद्धम् उशान्ति, तथा सैरेव सुपिष्टैः प्रदेहं कथयन्ति ॥४१॥ * सुवर्चलेस्यत्र सुवचिकेति चक्रः । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy