SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२श अध्यायः चिकित्सितस्थानम् । २७६१ व्योषत्रिवृत्तिक्तकरोहिणोश्च सायोरजस्कां त्रिफलारसेन। पोत्वा कफोत्थं शमयेत् तु शोथं गव्येन मूत्रेण हरीतकी च॥१६ हरीतकीनागरदेवदारु सुखाम्बुयुक्तं सपुनर्नवं वा। सर्व पिबेत् त्रिष्वपि मूत्रयुक्त स्नातश्च जीणे पयसान्नमद्यात्॥१७ पुनर्नवानागरमुस्तकल्कान् प्रस्थेन धीरः पयसाक्षमात्रान् । मयूरकं मागधिकां समूलां सनागरं वा प्रपिबेत् सवाते ॥१८॥ दन्तीत्रिवृत्त्राषणचित्रकैर्वा पयः शृतं दोषहरं पिबेन्ना। द्विप्रस्थमात्रन्तु पलार्द्धकैस्तैर वशिष्टं पवने सपित्ते ॥ १६ ॥ गङ्गाधरः-व्योपेत्यादि । व्योष्यादिपञ्चद्रव्यचूणसममेकमयोरजः शोधितमारितपुटिनं लोहचूर्ण त्रिफलारसेन पीला। गव्येन मूत्रेण हरीतकी च चूर्णिता पीता ॥१६॥ गङ्गाधरः-हरीतकीत्यादि। हरीतक्यादित्रयं चूर्णितं सुखाम्बुयुक्तं पीतं हरीतक्यादित्रयं सपुनर्नवं वा चर्णितं पीतं कफोत्थं शोथं शमयेदिति पूर्वेणान्वयः। त्रिष्वपि शोथेषु मूत्रयुक्तं सर्व व्योषादिकं योगचतुष्क पिवेत् । स्नातश्च तदोषधे जीर्णे पयसान्नमद्यात् ॥ १७॥ गाधरः-पुनर्नवेत्यादि। पुनर्नवादित्रयं प्रत्येकमक्षमात्रं कल्कीकृत्य पिष्ट्वा पयसः प्रस्थेनामा॑वशेषपक्वेन दुग्धेन धीरः सवाते शोथे पिबत। अथवा सवाते शोथे मयरकादिचतुष्क कल्करूपमक्षमात्रं पयसः प्रस्थेना वशेष शृतं पयसा पिबेत् ॥१८॥ गङ्गाधरः-दन्तीत्यादि। दन्तीमूलादिषट्कं पयसोऽष्टमांशं जलं चतुर्गुणं चक्रपाणिः-अख कफदोषस्व चिकित्सितत्वे प्रथमं व्योषमित्यादिना कफशोथचिकित्सामाह । सायोरजस्कामिति अनेन मारितमेवान अयोरज इच्छन्ति रसायनेऽपि मृतायोरजस एवं प्रयोगोपदेशात् । अयोरजः न समं तुल्यमानम्, अयो हि दुप्परिणामं तेनायःप्रयोगेऽल्पमेव लोहं मानानुसारेण ज्ञेयम् । हरीतक्यादीनां कल्कः सुखाम्बुना पेयः। सपुनर्नवं वा समिति हरीतक्यादि। विष्वपि वातादिजेषु । स्नातश्चेत्यादिविधिरन्ते उक्तत्वात् उक्तसर्वप्रयोगेषु ज्ञेयः । पुनर्नवेत्यादौ प्रस्थमानं क्षीरमिति बहुत्वात् तदनुभुक पेयम् । मयूरकमित्यादा. वपि पूर्वयोगक्तिं क्षीरं द्रव्यमानञ्च ज्ञेयम् ॥ १६-१८॥ चक्रपाणिः-पलाईकैरिति द्विकर्षमानैः। अव च भेषजापेक्षया बहुत्वात् स्तोकक्षीरदानं केचिदिच्छन्ति, साधनत्वेन कर्त्तव्यमिति यथा कुर्वन्ति स उपाय इति वचनात् ॥ १९॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy