SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः] चिकित्सितस्थानम् । २२८५ न केवलं दीर्घमिहायुरश्नुते रसायनं यो विधिवन्निषेवते। गतिं स देवर्षिनिषेवितांशुभां प्रपद्यते ब्रह्म तथैतिचाक्षरम् ॥२६॥ तत्र श्लोकः। अभयामलकीयेऽस्मिन् पड़ योगाः परिकीर्तिताः। रसायनानां सिद्धानामायुयैरनुवर्तते ॥३०॥ इत्यग्निवेशकूते तन्त्र चरकप्रतिसंस्कृते चिकित्सितस्थाने प्रथमाध्याये अभयामलकीयं नाम रसायनपादः प्रथमः॥१॥ रसायनपरा' महर्षयः वर्षसहस्राणि जरादिकं न जग्मुः। तर्हि किं रसायनाद दीर्घायुरेव स्यान्नान्यदित्यत उच्यते न केवलमित्यादि। यो विधिवद् रसायनं निषेवते, स केवलं न दीर्घायुरेवेह भूलोकेऽश्नुते, देवर्षिनिषेवितां शुभां गतिश्च प्रपदाते। तथा अक्षरं ब्रह्म चैति निर्वाणमुक्तिं प्रामोति इति ॥२९॥ गङ्गाधरः पादार्थमुपसंहरति-तत्र श्लोक इति। अभयामलकीयेऽस्मिन् रसायनपादे षड् योगा रसायनानां परिकीर्तिताः। यै रसायनयोगैरायुरनुवत्तते। इति ॥३०॥ पादं समापयति-अग्नीत्यादि। बैद्यश्रीगङ्गाधरकविराजकविरत्नविरचिते चरकजल्पकल्पतरौ चिकित्सित स्थाने अभयामलकीये रसायनपादः प्रथमः ॥१॥ ब्रह्म मोक्षः, मोक्षसाधनत्वन्चेह रसायनविशुद्धसत्त्वकर्तृतयोच्यते। अभयेत्यादिना सन्देहनिरासार्थमुक्तप्रयोगसंख्यां दर्शयति। एवमन्यत्रापि संख्याप्रणयनमन्ते ज्ञेयम् ॥ २८-३०॥ इति महामहोपाध्याय-चरकचतुरानन श्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां .. चरकतात्पर्यटीकायां चिकित्सितस्थानव्याख्यायामभयामलकीयरसायनपाद व्याख्या नाम प्रथमः पादः ॥१॥ २८७ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy