SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११श अध्यायः] चिकित्सितस्थानम्। २७६७ एलापत्रत्वचोऽर्दानाः पिप्पल्यईपलं तथा। सितामधुकखर्जर-मृद्वीकाश्च पलोन्मिताः॥ संचूर्य मधुना युक्त्या गुड़िकाः संप्रकल्पयेत्। -- अक्षमात्रां ततश्चैकां भक्षयेन्ना दिने दिने॥ कासं श्वासं ज्वरं हिक्कां छबि मूच्छी मदं भ्रमम् । रक्तनिष्ठीवनं तृष्णां पार्श्वशूलमरोचकम् ॥ शोषप्लीहाट्यवातांश्च स्वरभेदं क्षतक्षयम्। गुड़िका तर्पणी वृष्या रक्तपित्तश्च नाशयेत् ॥ ११ ॥ ___ एलादिगुड़िका। रक्तेऽतिवृत्ते दक्षाण्डं यूऑस्तोयेन वा पिबेत् । चटकाण्डरसं वापि रक्तं वा छागजाङ्गलम् ॥ १२ ॥ चूर्ण पौनर्नवं रक्त-शालितण्डुलशर्करम् । रक्तष्ठीवी पिबेत् सिद्धं द्राक्षारसपयोघृतम् ॥ १३॥ ... गङ्गाधरः-एलेत्यादि। प्रत्येकमेलादयस्त्रयो क्षाः, सितादीनां प्रत्येक पलं, सञ्चयॆ मधुना गुड़िकाकरणाहेण गुड़िकां कृता कर्षमात्रामेकैका भक्षयेत् । ना नरः। क्षतक्षयं क्षतञ्च शुक्रोजसोः क्षयश्च । एलादिगुड़िका ॥११॥ ... गङ्गाधरः-रक्ते इत्यादि। क्षतस्य क्षीणस्य वा रक्तेऽतिप्रत्ते मुद्गादियषैः तोयेन वा दक्षाडं कुक्कुटाडं पिबेत् । एवं यस्तोयैश्चटकाण्डरसं वा पिबेत् । अथवा छागं रक्तं जोङ्गलं हरिणादीनां रक्तं यस्तोयवो पिबेत् ॥ १२॥ गङ्गाधरः-चूर्णमित्यादि। पौनर्नवं एणं रक्तशालितण्डुलचर्ण शर्कराश्च समांशं नीला द्राक्षारसपयोघृतैर्यथार्ह सिद्धं पेयाई पक्वं पिबेत् ॥ १३॥ चक्रपाणिः-एलापतत्वच इति। गुड़िका युक्त्येति यावता मधुना गुटिका भवान्त तावन्मानं मधु ज्ञेयम् ॥ ११॥ चक्रपाणिः-दक्षो गोष्ठकुक्कुटः । छागजाङ्गलमिति छागभवं वा जाङ्गलहरिणादिभवं वा ॥१२॥ चक्रपाणिः-चूर्ण पौनर्नवमित्यादौ सिद्धमिति साधितम्। चूर्णसाधनं द्राक्षारसादिद्रवेण अग्निसंयोगात् चूर्ण वृहणमालकं कर्त्तव्यम् । उक्तं हि जतूकणे-पुनर्नवारक्तशालीद्राक्षासिताचूर्ण पयोघृतं सिद्धमिति ॥ १३ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy