SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०म अध्यायः ] चिकित्सितस्थानम् । अपस्मारे तथोन्मादे सर्पदष्टे गरादितै । 1. विषपीते जलमृते चैताः स्युरमृतोपमाः ॥ २७ ॥ मुस्तं वयःस्थां त्रिफलां कयस्थां हिङ्ग शाद्वलाम् । व्योषं माषान् यवान् मूत्रवस्तमेषार्षभैस्त्रिभिः ॥ पिष्ट्रा कृत्वा च तां वर्त्तिमपस्मारे प्रयोजयेत् । किलासेषु तथोन्मादे ज्वरेषु विषमेषु च ॥ २८ ॥ पुष्योद्धृतं शुनः पित्तमपस्मारघ्नमञ्जनम् । तदेव सर्पिषा युक्तं धूपनं परमं मतम् ॥ २६ ॥ नकुलोलूकमार्जार-गृधकोटाहिकाकजैः । ऊणैः पक्षः पुरीषैश्च धूपनं कारयेद् भिषक् ॥ ३० ॥ २७५७ कस्था सूक्ष्मला । शारदान् मुद्गान् कृष्णमुद्गान् । जलमृते जले मग्नो मृतवद यो भवति । तल्लक्षणञ्चेदम् । विष्टब्धपायुमूर्द्धाक्षिमाध्मातोदरमेहनम् । विद्यात् जलमृतं जन्तु शीतपादकराननमिति । सव्वथा मरणे भेषजाभावात् ॥ २७ ॥ गङ्गाधरः- मुस्तमित्यादि । वयःस्थां हरीतकीं, कयस्थामामलकी, त्रिफलासंज्ञया तयोर्लाभे पुनरुक्त्या भागद्वयम् । शाद्वलं नवतृणम् । वास्तमेषार्षभैत्रिभिः मूत्रः पिवा वर्त्ति कृत्वा तामपस्मारेऽञ्जनतया प्रयोजयेत् । एवं किलासादिषु च ॥ २८ ॥ गङ्गाधरः - पुण्योद्धृतमित्यादि । यदृच्छया मृतस्य शुनः पित्तं पुष्यानक्षत्रे उद्धतमपस्मारत्रमञ्जनं भिषक् प्रयोजयेत् । तदेव पुष्योद्धृतं शुनः पित्तं पुराणसर्पिषा युक्तं धूपनं परममपस्मारघ्नं मतमिति ॥ २९ ॥ गङ्गाधरः -- नकुलेत्यादि । कीटः पाश्चात्त्यवृश्चिकः । नकुलादीनां यथासम्भवमूणैः पक्षः पुरीषैश्च धूपनमपस्मारघ्नं भिषक् कारयेत् ॥ ३० ॥ For Private and Personal Use Only भवन्ति । वर्त्तिर्ने श्राञ्जनवर्त्तिः । विषपीत इति पीतविषे । जलपानेन मृत इति जलमृत्तः, तस्य लक्षणम् - विष्टब्धपायुरुद्ध निमाध्मातोदर मेहनम् । विद्याज्जलमृतं जन्तु शीतपादकराननम् । इति ॥ २७ ॥ चक्रपाणिः - वास्तमेषर्षभैरिति छागमेष वृषभसम्भवैः ॥ २८ ॥ चक्रपाणिः - पुष्योद्धृतमिति पुष्यनक्षत्र गृहीतं, कीटो वृश्चिकः ॥ २९ ॥ ३७ ॥ ३४६
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy