SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७ अध्यायः चिकित्सितस्थानम् । २७५५ शुनः स्कन्धास्थिनखरान् पाशुकांश्चेति पेषयेत् । वस्तमूत्रण पुष्यर्ने प्रदेहः स्यात् सधूपनः ॥ २० ॥ अपेतराक्षसीकुष्ठ-पूतनाकेशिचोरकः। उत्सादनं मूत्रपिष्टमूत्ररेवावसेचनम् ॥ २१ ॥ जलौकाशकृता तद्वत् दग्धैर्वा वस्तलोमभिः। . खरास्थिभिर्हस्तिनखैस्तथा गोपुच्छलोमभिः ॥ २२॥ कपिलानां गवां मूत्रं नावनं परमं हितम् । सशृगालविडालानां सिंहादीनाञ्च शस्यते ॥ २३ ॥ कट फलम् । शुनः कुक्कुरस्य स्कन्धश्चास्थि च नखराश्च । पशुकां पार्वास्थि। सर्वमिदं पुष्यानक्षत्रे वस्तमूत्रेण पेषयेत् । तेनापस्मारिणः सधपनः सर्लाङ्गे प्रदेहः। प्रलेपनाद्धापस्मारविनाशनं स्यात् ।। २० ॥ ___ गङ्गाधर-अपेतराक्षसीत्यादि। अपेतराक्षसी कृष्णतुलसी। पूतना हरीतकी। केशी केशिनी, योरकः शङ्खपुष्पी। पृक्का लता पिडङ्ग । गोमूत्रपिष्टः प्रलेपः। केव गोमूत्रैश्च सेचनम् ॥२१॥ . गङ्गाधरः-जलौकत्यादि। जतुकेति पाठे चर्मचटकपुरीषेण तद्वत् मलेपः। वस्तलोमभिर्दग्धैः पिष्टैस्तद्वत् प्रलेपः। खरास्थिभिर्दग्धैः पिष्टः प्रलेपः। हस्तिनरवैस्तथा दग्धैः पिष्टः प्रलेपस्तथा गोपुच्छलोमभिः दग्धैः पिष्टः प्रलेपः ॥२२॥ गङ्गाधरः --कपिलानामित्यादि। कपिलानां पिङ्गलगवीनां मूत्रं शृगालस्य विडालस्य च सिंहादीनां सिंहव्याघ्रतरक्षुप्रभृतीनाश्च मूत्रं नावनं नस्यम् अपस्मारिणे परमं हितमिति ॥२३॥ चक्रपाणिः--हिङ्गुशिवाटका वंशपत्रकमिति ख्याता। स्कन्धस्यास्यि पुष्यअनपेषण् न नक्षतयोगकृतसंस्कारमुपदिशति ॥ २० ॥ चक्रपाणिः-अपेतराक्षसीस्वरसः ॥२१॥ चक्रपाणिः-जलौकेत्यादौ तद्वदित्युत्सादनम् ॥ २२ ॥ चक्रपाणिः--कपिलानां गवां मूले विशेषकरं भवतीति आप्तवचनादुनीयते। सिंहादीनाच शस्यत इत्यादौ मूत्रमिति योज्यम् ॥ २३ ॥ * अभृगालविड़ालानामिति वा पाठः । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy