________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२७२०
Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता | देवर्षिगन्धर्व्वपिशाचयन - रक्षःपितणामभिधषणानि । आगन्तुहेतुर्नियमत्रतादि मिथ्याकृतं कर्म च पूर्वदेहे ॥ ११ ॥
उन्मादचिकित्सितम्
For Private and Personal Use Only
सर्वोन्मादरूपभृत् स उन्मादः विरुद्धमपज्य विधिर्यो भषज्यविधिर्वातिकोन्मादे स पैत्तिकोन्मादे विरुध्यते श्लैष्मिकोन्मादे च उष्णस्निग्धगुणभेषजं वातहरं न. पित्ते युज्यते, गुरुपिच्छिलस्निग्धादिगुणं न कफे, ततो विरुद्धभैषज्यविधित्वाद् विवस्त्याज्यो न चिकित्स्य इति । यत्र सन्निपातजः कश्चित् साध्य उक्तः, स नैवं सः समस्तैर्हेतुभिर्जातः सर्व्वलक्षणः साध्यत्वेनोक्तः । भैषज्यविधिः यत्र त्रिदोषजे विरुद्धो न भवति स एव साध्यत्वेनोक्तः । रुक्षशीताद्यल्पांशे कुपितत्रिदोषजे विरुद्ध भषज्यविधिर्न भवति । इति निजाश्चत्वार उन्मादाः सहेतु लिङ्गैरुपदिष्टाः । यस्तु सुश्रुतेन मानसदुःखजः पञ्चम उक्तः, स च वातादिजेषु त्रिवन्तर्भवति सर्व्वेषु हि कामरागक्रोधलोभहर्ष भयशोक चिन्तादिभिर्मनोऽभिघात उक्तस्तत्र वातकोपनैर्जाते तून्माद मानस दुःखजो वातजेऽन्तर्भवति, पित्तकोपनर्जाते पैत्तिके, श्लेष्मकोपने जाते इलैष्मिके, तस्मान्नातिरिक्तो मानसदुःखजः । सुश्रुतेन हेतुभेदज्ञानार्थं पृथगुक्त इत्यतो न विरोधः । विषजश्च विषरोग एवान्तर्भूतः । नातोऽतिरिक्तस्तत्तद्विषचिकित्सया तत्प्रतिकारवचनात् । कोद्रवधुस्तूरादिभिरुन्मादवन्मनस उन्मत्ततासामान्यात् सुश्रुतेनोक्तो न पुनः उन्मादरोगाभिप्रायेणेति ॥ १० ॥
गङ्गाधरः - अथागन्तु जोन्मादमाह - देवर्षीत्यादि । देवादीनामभिघर्षणं वाचाभिभवकरणम् । रक्षोऽत्र द्विविधं राक्षसब्रह्मराक्षसभेदात् । मिथ्याकृतं अयथाविधिना कृतं नियमत्रता' द । तथा पूर्व्वदेहे मिथ्याकृतं कर्म च उन्मादजन्मन्यागन्तुर्नामहेतुः । एते हेतवः प्रागेवोन्मदयन्ति पश्चादोषा अनुबध्नन्ति न तु प्रागेव दोषान् कोपयन्ति तत उन्मादयन्तीति दोषजादः । एभ्यो देवादिभ्यः स्यादत आह समस्तैरिति । विरुद्ध भैषज्यमिति विरुद्धत्वाद विवज्ज्येः । केचिदख तादृकशब्देन य एव समस्तहेतुजः सव्र्वलक्षणश्च स एव वज्ज्येभेषजस्य हेतुलक्षण इति वदन्ति ॥ १० ॥ : चक्रपाणिः -- देवर्षीत्यादिना आगन्तून्मादमाह । ये चासंख्येया ग्रहगणाः सुश्रुतोक्तास्ते इह आविष्कृता विज्ञेयाः । वक्ष्यति च इत्यपरिसंख्येयानां ग्रहाणामाविष्कृततया ह्यष्टावेते व्याख्याता इति । अत्र च रक्षःशब्देन राक्षसब्रह्मरक्षसोर्ग्रहणम्, ब्रह्मराक्षसे समस्ता एवोक्ताः । अभिघर्षणमावेशः । नियमेत्यादिना ऐहिकं कर्म देवाद्यवेशकारणम् । मिथ्याकृतं कर्म चेत्यनेन पूर्वजन्मकृतं कर्म आह ॥ ११ ॥