SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७१० चरक-संहिता। राजयक्ष्मचिकिरिसाम् वारुणीमण्डनित्यस्य वहिर्मार्जनसेविनः। अविधारितवेगस्थ यक्ष्मा न लभते बलम् ॥ ७९ ॥ प्रसन्नां वारुणों सीधुमरिष्टानासवान् मधु । यथामनुपानार्थं पिबेन्मांसानि भक्षयेत् ॥ मद्य तेक्ष्ण्योष्ण्यवेशद्य-सूक्ष्मत्वात् स्रोतसां मुखम् । प्रमथ्य विवृणोत्याशु तन्मोक्षात् सप्त धातवः । पुष्यन्ति धातुपोषाच्च शीघ्र शोषः प्रशाम्यति ॥८०॥ मांसादमांसस्वरसे सिद्धं सर्पिः प्रयोजयेत् । सक्षौद्र पयसा सिद्धं सर्पिदशगुणेन वा ॥ सिद्धं मधुरकैदव्यैर्दशमूलकषायकः। क्षीरमांसरसोपेतैघृतं शोषहरं परम् ॥ ......... पिप्पलीपिप्पलीमूल-चव्यचित्रकनागरैः। सयावशूकैः सक्षीरैः स्रोतसां शोधनं घृतम् । रानाबलागोक्षुरक स्थिरावर्षाभूसाधितम् ॥ ८१॥ प्रयोगानाह-वारुणीत्यादि। वारुणीमण्डो नित्यं यस्य तस्य वहिर्जिनसेविनोऽविधारितवेगस्य यक्ष्मिणो यक्ष्मा बलं न लभते ॥ ७९ ॥ ___ गङ्गाधरः-प्रसन्नामित्यादि। यथार्ह मांसानि भक्षयेत् तदनुपानार्थ प्रसन्नादीनि च पिबेत् प्रकरणाद् यक्ष्मीति । मद्यमित्यादि । प्रसन्नादि यथोक्तमद्य पीतं सत् तैक्ष्ण्योष्ण्यवैशद्यसूक्ष्मवाद यक्ष्मिणो दोषैवेद्धं स्रोतसां मुरवं प्रमथ्य प्रविलोड्याशु विकृणोति विकृतं करोति, तन्मोक्षात् स्रोतसां मुखरोधमोक्षादाहारेण सप्त धातवः पुष्यन्ति धातुपोषाच्च शीघ्र शोषः प्रशाम्यतीति ॥८० गङ्गाधरः-अथ प्रशमनयोगानाह-मांसादेत्यादि । मांसादमृगपक्षिणो मांस काथे चतुगुणे सिद्धं सपिः प्रयोजयेत् । अथवा दशगुणेन पयंसा सिद्धं सपिः शीते मधु पादिकं दत्त्वालोड्य प्रयोजयेत्। अथवा मधुरकैर्जीवनीय कल्कैदेशमूलस्य कषायकै तात् सार्द्धगुणः समक्षीरोपेतः सार्द्धगुणमांसरसोषेतैश्च सिद्धं घृतं परं शोषहरं प्रयोजयेत्। पिप्पलीत्यादि। पञ्चकोलयवक्षारीः चक्रपाणिः-सक्षौमिति छेदः । पयसेत्यादि द्वितीयं धृतम्। मधुरकाणि यानि तानि चेह For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy