________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६४८
चरक-संहिता। राजयक्ष्मचिकित्सित न सितोपलातुगाक्षीरी-पिप्पलीबहुलात्वचः। अन्त्यादूद्धं द्विगुणितं लेहयेत् क्षौद्रसर्पिषा ॥ चूर्णितं प्राशयेद् वैतच्छासकासवगपहम् । सुतजिह्वारोचकिनमल्याग्निं पार्श्वशूलिनम् ॥५०॥ हस्तपादाङ्गदाहेषु ज्वरे रक्त तथोड़गे। वासाघृतं शताव- सिद्धं वा परमं हितम् ॥५१॥ श्वदंष्ट्रां सदुरालभां चतस्रः पर्णिनोर्बलाम् । भागान् पलोन्मितान् कृत्वा पलं पर्पटकस्य च ॥ पचेद दशगुणे तोये दशभागावशेषिते। रसे सुपूते द्रव्याणामेषां कल्कान् समावपेत् ॥ गङ्गाधरः-सितोपलत्यादि। षोडशभागा सितोपला शर्करा, अष्टांशा तुगालोरो वंशलोचना, चतुर्भागं पिप्पलीचूर्ण, द्विभागा बहुला एला, एकभागा खक, इत्यन्त्यादूद्ध द्विगुणितम् । क्षौद्रसर्पिषा लेहयेदथवा चूर्णं सुप्तजिहादिरोगिणं प्राशयेदिति। सितोपलालेहः॥५०॥
गङ्गाधरः-वासाघृतमित्यादि। वासकं कल्कीकृत्य शतावरीरसेन चतुगुणेन सिद्धं घृतं यक्ष्मिणः परमं हितम् ॥५१॥
गङ्गाधरः-श्वदंष्ट्रामित्यादिना गोक्षुराध घृतम् । श्वदंष्ट्रादीनां बलान्तानां सप्तानां प्रत्येकं पलोन्मितान् भागान् पपेटकस्य पलं कुला दशगुणे तोये इति दशगुणवचनात् द्रव्याणां पलोल्लेखादद्वैगुण्ये पचेत् । दशभागेकभागशेषे अष्टपले
चक्रपाणि:-सितोपलादावन्त्यादूई द्विगुणितमित्यन्त्यायास्त्वच एको भागः, बहुलाया भागद्वयं, पिप्पल्या भागचतुष्टयं, तुगाक्षीरं वंशलोचनानुकारि पार्थिवं द्रव्यम्, तस्याष्ट भागाः, सितोपलायास्तु षोड़श। अर्द्ध शब्देन चेहातीततोच्यते विवक्ष्यमाणा । ऊ धोभागस्य स्थानात् तेन कचित् ऊर्द्धमित्यादावपगतोऽपि ऊर्द्धशब्दश्चरति ॥ ५० ॥ - चक्रपाणिः-हस्तेत्यादिके वक्ष्यमाणवासाघृतं रक्तपित्तोक्तञ्च योनिच्यापश्चिकित्सितवक्ष्यमाणञ्च॥५॥
चक्रपाणिः- श्वदंष्टाद्य पचेद दशगुणे तोये इत्यनेन घृताद दशगुणतोयेनेति ज्ञेयम् ; द्रव्याद
For Private and Personal Use Only