SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८म अध्यायः २६८१ चिकित्सितस्थानम् । पूर्वरूपं प्रतिश्यायो दौर्बल्यं दोषदर्शनम् । अदोषेष्वपि भावेषु काये बीभत्सदर्शनम् ॥ घृणित्वमश्नतश्चापि बलमांसपरिक्षयः।। स्त्रीमद्यमांसप्रियता प्रियता चावगुण्ठने ॥ साहसादिप्रत्येकहेतुजमुक्तं चतुर्विधो हेतुश्चोक्त इति। ये तु व्याचक्षते-हेतु. चतुष्टयान्मिलितादेव साहसादिचतुष्टयात् एष राजयक्ष्मा जायते न त्वेककस्मात् साहसादित इति, तदयुक्तं, यत इह निदानस्थाने च प्रत्येकहेतोस्त्रिदोषकोप एकादशरूपाणि सम्प्राप्तिश्चोक्ता इति ॥११॥ गङ्गाधरः-पूज्वरूपाण्याह-पूर्वरूपमित्यादि । प्रतिश्यायादि-पततां यच्च दशनमित्यन्तं पूर्वरूपं व्याधिसमूहस्य रोगराजस्य भवति। तच्च बहुरूपस्य राजयक्ष्मणः प्राग्रपं शेयम्। तत्र दोषदर्शनमदोषेष्वपि भावेषु । यत द्रव्यादिकमदुष्टं तद् दुष्टवद् दृश्यते। काये स्वशरीरे बीभत्सदर्शनं निन्दितरूपदर्शनम्। घृणिसमश्नतश्चापि, यदनाति तच्च घृणयाऽश्नाति । स्त्रीमद्यमांसप्रियता, स्त्रीषु मदाषु मांसेषु भोगार्थ प्रियता भवति। अवगुण्ठने रूपत्वाभिधानं युक्तम् । उक्तञ्च शल्ये --'एकप्रदेशानामेकन सान्निध्यात् तत्र क्रियायाचाविभागेन प्राण' इत्यायनेन च। 'एक एव मतः शोषः सन्निपातात्मको गदः' इतीहापि चोक्तम् । सर्वस्त्रिदोषजो यक्ष्मा इत्याद्य वं हेतुना लक्षणेन चतुर्णामपि भेदात् भिन्न एव इति युक्तम् । अब हेतवोऽयथाबलमारम्भादयः उक्ता एव, लिङ्गञ्च भिन्नं साहसजं, कण्डोद्ध्वंस उरोरुक् जृम्भा च। वेगसन्धारणजे च अङ्गमर्दो मुहुश्छस्तिथा वर्चीभेदस्त्रिलक्षणः। अन्यत्र हि व भेदस्त्रिलक्षणो न भवति। क्षयजे श्वासशूलसन्तापाः। विषमाशने छईनं रुधिरस्य, साहसजे प्रतिश्यायाभावः। शोषे तु प्रतिश्याय इत्यादिलक्षणभेदः। चिकित्सितभेदस्तु असाधारणलक्षणे कृत एव तस्माद् भेदो यक्ष्मणामेव तन्त्रान्तरे स्थूलदृष्ट्या भेद उक्तः सूक्ष्मचिन्तायान्तु अयमेव भेदो युक्त्या ज्ञेयः। पुनश्च "इत्यादिना" दोषलक्षणानि वक्ष्यति तत् सामान्येन यक्ष्मणः प्रायोभाविलक्षणं चतुर्वपि समुच्छिद्योक्तमिति ज्ञेयम ; तेन न पुनरुक्तम् ॥ ११॥ चक्रपाणिः-सम्प्रति चतुर्णामपि साधारणं पूर्वरूपमाह - पूर्वरूपमित्यादि। प्रतिश्यायश्च रूपे पठितः। तेन प्रतिश्यायः पूर्वरूपं पूर्वरूपान्तरसहितं रूपमिति विशेषः। न चैक एवं प्रतिश्यायः पूर्वरूपार्योऽपि व्याध्यवस्थायां वर्तमानत्वाद रिष्टं भवति पूर्वरूपाणि सर्वाणि इत्यादिना सर्वपूर्वरूपाणां रूपानुवर्त्तनाद् व्याधौ रिष्टं युक्तम् । काये बीभत्सदर्शनमिति For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy