SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७म अध्यायः चिकित्सितस्थानम् । २६५५ शैरीषी त्वक् पुष्पं कार्पास्या राजवृक्षपत्राणि पिष्ट्रा च काकमाची चतुर्विधः कुष्ठनुल्लेपः॥ ५६ ।। चखारो लेपाः। दाा रसाञ्जनस्य च निम्बपटोलस्य खदिरसारस्य । आरग्वधवृक्षकयोस्त्रिफलायाः सप्तपर्णस्य ॥ इति षट् कषाययोगाः कुष्ठनाः सप्तमश्च तिनिशस्य । स्नाने पाने च हितास्तथाष्टमश्चाश्वमारस्य ॥ आलेपनं प्रघर्षणमवचूर्णनमेत एव च कषायाः। तैलघृतपाकयोगे चेष्यन्तै कुष्ठशान्त्यर्थम् ॥ ५७॥ अष्टौ कषायाः। गङ्गाधरः-गैरीषीत्यादि। शिरीषस्य लक, कार्पास्या वनकार्पास्याः पुष्पं, राजवृक्षस्य पत्राणि, काकमाची चेति चखारि प्रत्येकं जलेन पिष्ट्वा लेपः। इति चखारो योगाः॥५६॥ गङ्गाधरः-दाा इत्यादि। दाव्या दारुह रिद्राया रसाञ्जनस्य घनीभूतकाथस्य शोषाद रसाञ्जनसंशस्य कषाययोग एकः। निम्बपटोलस्य निम्बवल्कलपटोलपत्रयोः कपाययोगो द्वितीयः। खदिरसारस्य कषाययोगस्तृतीयः। आरग्वधक्षकयोः राजवृक्षकुटजवल्कलयोः कषाययोगश्चतुर्थः । त्रिफलायाः पश्चमः। षष्ठः सप्तपर्णस्य । सप्तमस्तिनिशक्षस्येति । तथाष्टमोऽश्वमारस्य करवीरमूलखचः। कषाययोगाः इमे स्नाने पाने च हिताः कुष्ठना एव काथरूपेण । एत एवाष्टौ कषायाः कल्करूपेणालेपनं प्रघर्षणमवचूर्णनश्च कर्त्तव्याः। तैलघृतपाकयोगे चैत एवाष्टौ कषाया इष्यन्ते कल्ककाथाभ्यामिति ॥ ५७॥ अष्टौ कषायाः। चक्रपाणिः-शैरीषीत्यगादौ प्रत्येकद्रग्यकृतत्वेन चतुर्भिः प्रलेपो शेयः। अन्ये तु चतुर्भिरपि मिलितैरवचूर्णनोद्वर्तनजलपिष्टलेपनरसक्रियालेपनभेदेनेह चतुर्विधलेपं वदन्ति। एतच विधानचतुष्टयमन्यप्रयोगेष्वपि दृश्यते। तथाप्यालेपनसिद्धत्वान्नातिरमणीयम् ॥५६॥ चक्रपाणिः-दाया इत्यादौ दाझैसम्बन्धिनो रसाञ्जनस्यैको योगः। शेषास्तु षट्। सप्तकस्तिनिशस्याष्टमोऽश्वमारस्य। अश्वमारस्तु यद्यपि मूलत्वेनोक्तस्तथापि कुष्ठेषु विषमयोगस्यापि विहितस्वात् साधुः ॥५॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy