SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १म अध्यायः चिकित्सितस्थानम्। २२६४ अथोदगयने शुक्ले तिथिनक्षत्रपूजिते। मुहूर्त्तकरणोपेत प्रशस्तै कृतवापनः॥ धृतिस्मृतिबलं कृत्वा श्रदधानः समाहितः। विधूय मानसान् दोषान् मैत्री भूतेषु चिन्तयन् ॥ देवताः पूजयित्वाग्रे द्विजातींश्च प्रदक्षिणम् । देवगोब्राह्मणान् कृत्वा ततस्तां प्रविशेत् कुटीम् ॥ १२ ॥ तस्यां संशोधनैः शुद्धः सुखी जातबलः पुनः। रसायनं प्रयुञ्जोत तत् प्रवक्ष्यामि शोधनम् ॥ १३॥ गङ्गाधरः---अथेत्यादि। एवंविधां कुटीं कृत्वाऽथानन्तरं उदगयन उत्तरायणे शुक्ले पक्षे तिथिनक्षत्रपूजिते शुभतिथिशुभनक्षत्राभ्यां पूजिते शुभे मुहूर्तकरणोपेते शुभलग्नकरणयुक्ते प्रशस्ते चन्द्रतारादिशुद्धदिने कृतवापनः कृतक्षौरका धृतिस्मृतिबलं कृत्वा साहसं कृखा श्रद्दधानः श्रद्धान्वितः सन् समाहितः अवधानवान् सन् मानसान् दोषान् रागद्वेषादीन् विध्य त्यक्त्वा भूतेषु सर्वेषु प्राणिषु मत्री मित्रतां चिन्तयन् देवता गणेशादीन् देवानग्रे पूजयित्वा ततो द्विजातींश्च ब्राह्मणादीन् यथार्ह पूजयित्वा देवगोब्राह्मणान् प्रदक्षिणं कृत्वा ततस्तां कुटी प्रविशेत् ॥१२॥ गङ्गाधरः-ननु कुटी प्रविश्य किं कुर्यादित्यत आह-तस्यामित्यादि। संशोधनैर्वक्ष्यमाणैरत्र हरीतक्यादिभिरपरैर्वा तद्विधैरतिदोषसद्भावे तु पञ्चभिश्च कर्मभिः शुद्धः सन् पुनर्जातवलः सन् सुखी यदा भवति तदारसायनं प्रयुञ्जीत, न खजातबलो दुःखी वा। संशोधनशुद्धवचनेन बालवृद्धयो रसायनप्रयोगे प्रतिषेधो बोध्यः, संशोधनस्य बालवृद्ध प्रतिषेधात्। सुश्रुतेऽप्युक्तम्-पूर्वे वयसि मध्ये वा मनुष्यस्य रसायनम् । प्रयुञ्जीत भिषक् पाशः स्निग्धशुद्धतनोः सदा। अविशुद्धशरीरस्य युक्तो रासायनो विधिः। न भाति वाससि म्लिष्टे रङ्गयोग इवार्पितः॥ इति। एवमन्यत्र जरापक्कशरीरस्य व्यर्थमेव रसायनम् इति। तथा च सजा वैद्यादयः स्थिता यस्यां सा तथा। शुक्ल शुक्लपक्षे। नक्षतपूजित इति शुभनक्षतयोगात् पूजिते । कृतवापन इति कृतक्षौरः । मानसान् दोषानिति कामक्रोधादीन् । संशोधनैरिति वमनविरेचना. स्थापनशिरोविरेचनैः। सुखीत्यरोगः । जातबल इति संशोधनायासहतबलतया संसर्जनादिक्रमेण पुनर्जातबलः। यद्यपीह संशोधनैरिति बहुवचनप्रयोगात् सळण्येव संशोधनानि सम्मतानि, For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy