SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६२६ चरक-संहिता। [प्रमेहचिकित्सितम् तत्र श्लोकाः। हेतुदोषो दृष्यं मेहानां साध्यतानुरूपश्च । मेहो द्विविधो द्विविधं भिषगजितं तल्लक्षणं दोषः॥ आद्या यवान्नविकृतिर्मन्था मेहापहाः कषायाश्च । तैलघृतलेहयोगा भक्ष्याः प्रवरासवाः सिद्धाः॥ व्यायामविधिविविधः स्नानान्युद्वर्त्तनानि गन्धाश्च । मेहानां प्रशमार्थं चिकित्सिते दृष्टमेतावत् ॥ ४०॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने प्रमेहचिकित्सितं नाम षष्ठोऽध्यायः॥६॥ गङ्गाधरः-अथाध्यायार्थ संगृह्णाति श्लोकः तत्र श्लोका इति । साध्यतानुरूपश्च मेहो द्विविध इति स्थूलः प्रमेही बलवानिहकः कृशस्तथैकः परिदुर्बलस्विति द्विविधम् । द्विविधं भिषगजितमिति कृशस्य संदृहणं दोषबलाधिकस्य संशोधनमिति, संशोधनान्ते सन्तर्पणं तस्याकरणे दोषश्च गुल्म इत्यादिना। आयेत्यादिना या चकारात् या वातमेहान् प्रतीत्यादिकं यावदुक्तं तत् सर्व संगृहीतम् ॥३९॥ इति वैद्यश्रीगङ्गाधरकविराजकविरत्नविरचिते चरकजकल्पतरौ षष्ठस्कन्धे चिकित्सितस्थानजल्पे प्रमेह चिकित्सित जल्पाख्या षष्ठी शाखा ॥६॥ चक्रपाणिः-हेतुरित्यादि संग्रहः। भिषगजितमिति संशोधनं संशमनं, निदानवर्जनश्च । आद्या इति भक्षणीयाः। शेषं सुगमम् ॥ ३९ ॥ इति महामहोपाध्याय-चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां घरकतात्पर्य्यटीकायां चिकित्सितस्थानव्याख्यायां प्रमेहचिकित्सितं नाम षष्ठोऽध्यायः ॥ ६॥ * हेतुर्दोषो दूष्यं मेहानां साध्यतानुरूपञ्च । मेही द्विविधस्त्रिविधं भिषगजितं तल्लक्षणम् । इति पाठान्तरं वचित्। For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy