________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः ]
चिकित्सितस्थानम् ।
प्रभिद्यते न यदेवं दद्याद् योनिविशोधनम् । चारेण युक्तं पललं सुधाचीरेण वा पुनः ॥ ताभ्यां वा भावितान् दद्याद् योनौ कटुकमत्स्यकान् । वराहमत्स्यपित्ताभ्यां लक्तकान् वा सुभावितान् ॥ अधोहरैश्चोद्ध हरैर्भावितान् वा समाक्षिकैः । किरावं वा सगुड़चारं दद्याद योनिविशोधनम् ॥ १०५ ॥ रक्तपित्तहरं चारं लेहयेन्मधुसर्पिषा ।
२६०१
लसुनं मदिरां तीक्ष्णां मत्स्यांश्चास्यै प्रदापयेत् ॥ १०६ ॥ वस्तिं सक्षीरगोत्रं सचारं दाशमूलिकम् । दृश्यमाने रुधिरे दद्याद गुल्मप्रभेदनम् ॥ १०७ ॥
गङ्गाधरः - प्रभिद्यत इत्यादि । यद्येवं स्नेहक्षारयोगेण रौधिरो गुल्मो न प्रभिद्यते तदा योनिविशोधनं दद्यात् । ननु योनिविशोधनं किं भवतीत्याहक्षारेणेत्यादि । क्षारेण पलाशादिभस्मपड़ गुणचतुगणान्यतरोदकं वस्त्रे स्थापनेन अधः पतितेन लवणवद्द्द्रव्येण पललं मांसस्य दीघाकारं खण्डं युक्तं कृत्वा तत्क्षारेण प्रक्षितं योनिद्वारेण प्रवेशयेत् । अथवा सुधायाः स्नुह्याः क्षीरेण म्रक्षितं तथाविधमांसखण्डं योनिद्वारेण प्रवेशयेत् । अथवा क्षारस्नुही क्षीराभ्यां भावितान् कटुकमत्स्यकान् तिक्तपोष्ठीप्रभृतीन् मत्स्यान्न योनौ दद्यात् । अथवा वराहमत्स्ययोः पित्ताभ्यां सुभावितान् लक्तकान् अलक्तकान् योनौ दद्यात् । अथवा अधोहरवरेचनिकद्रव्य काथैः समाक्षिकैस्तथोद्ध हरैर्वमनद्रव्यकाथैः समाक्षिकः सुभावितान् लक्तकान् योनौ दद्यात् । अथवा किण्वं तिलकल्कं सगुड़क्षारं पुराणगुड़ यवक्षारमिश्रां वर्त्तिं कृला योनिविशोधनं दद्यात् । अथवा रक्तपित्तहरं क्षारं मधुसर्पिर्ध्या लेहयेत् । तथास्यै लमुनं भक्षणार्थं तीक्ष्णां
For Private and Personal Use Only
-
चक्रपाणिः -- पललं तिलपिष्टम् । क्षारश्चात पलाशक्षार एव प्रकृतत्वात् । ताभ्यामिति क्षारसुधाक्षीराभ्याम् । कटुकमत्स्यः शफरीशुष्कमत्स्यः । लक्तकान् वस्त्रावयवान् । किण्वं सुरावीजम् । रक्तपित्तहरं क्षारमिति नीलोत्पलक्षारम् ॥ १०५-१०७ ॥