SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५म अध्यायः चिकित्सितस्थानम्। २५६६ पञ्चमलीशृतं तोयं पुराणं वारुणीरसम् । कफगुल्मी पिबेत् काले जीणं माध्वीकमेव च ॥ ६ ॥ यमानीचूर्णितं तक विडेनालवणी कूतम् । पिबेत् सन्दीपनं वात-मूत्रवर्धोऽनुलोमनम् ॥ १० ॥ सञ्चितः क्रमशो गुल्मो महावास्तुपरिग्रहः । कूतमलः सिरानद्धो यदा कूर्म इवोन्नतः॥ दौर्बल्यारुचिहृल्लास-कासवम्यरतिज्वरैः। तृष्णातन्द्रातिश्यायैर्यज्यते न स सिध्यति ॥ १०१ ॥ गृहीत्वा सज्वरश्वासं छातीसारपीड़ितम्। हृन्नाभिहस्तपादेषु शोथः कर्षति गुल्मिनम् ॥ १०२ ॥ सर्पिपा वा संस्करणेन द्रव्येणेतावन्मात्रेण व्यञ्जनद्रव्याणि जाङ्गलमृगपक्षिपटोलवार्ताकप्रभृतीनि पक्त्या संस्कार्य व्यञ्जनानि कल्पयेत् यथा गुल्मिने रोचन्ते ।। ९८॥ गङ्गाधरः-पानीयमाह - पञ्चमूलीत्यादि। पुराणं वारुणीरसं पुरातनवारुणीसंशमद्यद्रवं, काले पिपासाकाले न खकाले, जीर्ण पुरातनं माध्वीकं मधुकृतं मद्यम् ॥ ९९ ॥ गङ्गाधरः-अथानुलोमिकयोगमाह-यमानीत्यादि । आलवणीकृतं विड़लवणयोगेनेपल्लवणीकृतम् ॥१०॥ गङ्गाधरः-कफगुल्मान्तगल्मचिकित्सितमुक्त्वा एषामसाध्यवावस्थामाहसञ्चित इत्यादि । क्रमशः सञ्चितः सन् गुल्मो यदा महावास्तु स्वनिवासस्थानं महत् विपुलं परिगृह्णाति कृतमूलश्च भवति न चलति, सिराभिः सूक्ष्मान्त्रादिभिनंद्ध आकृतः सन् बद्धो भवति, यदा वा स्वावस्थितिस्थाने कूर्मा इव उन्नतो भवति, दौर्बल्यादिभिश्च युज्यते यो गुल्मः स न सिध्यति ॥११॥ गङ्गाधरः-अपरासाध्यलक्षणमाह-गृहीत्वेत्यादि। ज्वरश्वासच्छतीसारयुक्तं गुल्मिनं हन्नाभिहस्तपादेषु शोथो गृहीला कर्षति मारयति ॥ १०२॥ चक्रपाणिः-प्रपुराणागी क्रमादसाध्यताप्राप्तं गुल्ममाह सञ्चित इत्यादिना। महावास्तुपरिग्रह इति भूरिदेशव्यापकः ॥९८-१०२ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy