SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १म अध्यायः चिकित्सितस्थानम्। २२६५ अपत्यसन्तानकरं यत् सद्यः सम्प्रहर्षणम् । बाजीवातिबलो येन यात्यप्रतिहतः स्त्रियः॥ भवत्यतिप्रियः स्त्रीणां येन येनोपचीयते । जीर्य्यतोऽप्यनयं शुक्र फलबद येन दृश्यते ॥ प्रभूतशाखः शाखीव येन चैत्यो यथा महान् । भवत्यसौ ॐ बहुमतः प्रजानां सुबहुप्रजः॥ रसायनम्” इति। तत् कश्चिद् व्याचष्टे--जराव्याध्योर्विध्वंसीति, तन्न, दीघायुःस्मृत्यादिकररसायनेऽव्याप्तेः। यत् तु जरैव व्याधिर्जराव्याधिस्तस्य विध्वंसीति, तन्न, व्याधिहररसायनेऽव्याप्तः। जराशब्देनात्र दीर्घायुःस्मृत्यादिकमुच्यते चेत तदा पूर्वकल्पः साधुः साधुश्च येनैव जरा विध्वस्यते तेनैवावश्यं दीर्घायुःस्मृत्या दयो जन्यन्ते इति व्याप्तता जराविध्वंसकरत्वेनेवैकान्ततो दीघायुःस्मृयादि करवप्राप्तेरिति। कपालरञ्जनादिकन्तु भेषजं न रसायनं, पलितमात्रं 'हि न जरा, परन्तु बलिपलितादि इति ॥६॥ गङ्गाधरः---रसायनशब्दार्थमुक्त्वा वृष्यार्थमाह -अपत्येत्यादि। अपत्यानां सन्तानं समूहस्तत्करं यत् । यत् सद्यः सम्पहर्षणं सद्यः सम्यक् प्रकर्षण हर्षयति पुनःपुनः कामोद्दीपनेन ग्राम्यधर्मशक्त्या लिङ्गोदगम हर्ष जनयति । येन कृतव्यवायोऽपि पुनः कामोद्दीपनेनाप्रतिहतः पुनाम्यधर्मे जातशक्तिः वाजीवाश्च इवातिबलोऽतिशयकामवेगः स्त्रियो याति नारीगच्छति सुतरामतिरतिशक्त्या स्त्रीणामतिशयेन प्रियो येन भवति । येन च भेषजेन जीर्यतोऽपि जराम् आपद्यमानस्यापि शुक्रं पुनःपुनः कृतव्यवायत्वेऽपि अक्षयं सद् उपचीयते बद्ध ते--- यनस्तु तदुपदेशः कः। न केवलमक्षयं शुक्रमुपचीयते येन च भेषजेन शुक्र फलवत् पुत्राद्यपत्यफलजनक दृश्यते। चैत्यो यथा प्रभूतशाखः शाखी यथा च महान प्रजानां बहुमतः बहुभिः पूजितो भवति, तथासौ पुमान येन भेषजेन वाकसिद्धिः,---यदुच्यते तदवश्यं भवतीत्यर्थः। प्रगतिर्लोकवन्धता। कथमेतद्रसायनेन क्रियते इत्याह--लाभेत्यादि। रसादिग्रहणेन स्मृत्यादयोऽपि गृह्यन्ते ॥ ६॥ चक्रपाणिः-वाजीकरणकार्यमाह-अपत्येत्यादि। अपत्यसन्तानोऽपत्यपरम्परा, तेन पुत्रपौतकरमित्यर्थः, वाजीकरणजनितात् शुक्राजातः पुत्रः पुत्रजननसमर्थी भवतीत्यर्थः। अति * भवत्यच्चों इति पठ्यते चक्रेण । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy