________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५५८४
चरक संहिता |
पञ्चमूलीकषायेण सक्षीरेण शिलाजतु । पिबेत् तस्य प्रयोगेण वातगुल्माद् विमुच्यते ॥ ६६ ॥
शिलाजतुप्रयोगः ।
Acharya Shri Kailassagarsuri Gyanmandir
[ गुल्मचिकित्सितम्
वाढ्य यूषेण पिप्पल्या मूलकानां रसेन वा । भुक्त्वा स्निग्धमुदावर्त्ताद् वात गुल्माच्च मुच्यते ॥ ६७ ॥ शूलानाहविबन्धात्तं स्वेदयेद् वात गुल्मिनम् । स्वेदः स्वेद विधावुक्तर्नाडीप्रस्तर सङ्करैः ॥ ६८ ॥ वस्तिकर्म्म परं विद्याद गुल्मघ्नं तद्धि मारुतम् । स्वस्थाने प्रथमं जित्वा सद्यो गुल्ममपोहति ॥
यवक्षारमनुरूपम्, न तु तैलाद्यन्यतमसमम् । पञ्चकमिदमेकत्र कृतं पीतं गुल्मादिकं साधयेत् । तैलपञ्चकम् ॥ ६५ ॥
गङ्गाधरः - पञ्चमूलीत्यादि । विल्वादिपञ्चमूलीकाथेन सक्षीरेण समक्षीरेण चतुर्गुणेन शिलाजतु शोधितशिलाजतु पिबेत् । तस्य शिलाजतुनः प्रयोगेण । शिलाजतुप्रयोगः ॥ ६६ ॥
गङ्गाधरः - वाव्यमित्यादि । वाट्यो यवमण्डः । मुद्गादिविदलकृतेन यषेण पिप्पल्या रसेन मूलकानां रसेन वा स्त्रिग्धं सघृतं भुक्त्वा पुमान् उदावर्त्तादितो मुच्यते ॥ ६७ ॥
गङ्गाधरः-शूलानाहेत्यादि । स्वेदविधौ स्वेदाध्याये । वस्तिकर्मेत्यादि । परम्रुत्कृष्टं गुल्मघ्न वस्तिक विद्यात् । हि यस्मात् तदवस्तिकम् प्रथमं दत्तमात्रं
For Private and Personal Use Only
चक्रपाणिः - पञ्चमूलीत्यत्र प्रथमकल्पनया शालपर्ण्यादिपञ्चमूलीग्रहणं वाच्यम् ॥ ६६ ॥ चक्रपाणिः - पिप्पलीप्रधानो यूषः पिप्पलीयूषः । नाडीप्रस्तरसङ्करैरित्यनेन गुल्मे स्वेदान्तरस्य चायोगिकत्वं सूचयति ॥ ६७ ॥ ६८ ॥