SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - २५८२ चरक-संहिता। [दुस्मचिकित्सितम मातुलुङ्गरसो हिङ्गा दाडिमं विड़सैन्धवम् । सुरामण्डेन पातव्यं वातगुल्मरुजापहम् ॥ ६॥ शटीपुष्करहिङ्गम्ल-वेतसक्षारचित्रकम् । धान्यकञ्च यमानीश्च विडङ्ग सैन्धवं वचाम् ॥ सचव्यपिप्पलीमूलमजगन्धां सदाडिमाम्। अजाजीञ्चाजमोदाश्च चूर्ण कृत्वा प्रयोजयेत् ॥ रसेन मातुलुङ्गस्य मधुशुक्तेन वा पुनः । भावितं गुड़िकां कृत्वा सुपिष्टां कोलसम्मिताम् ॥ गुल्मं प्लीहानमानाहं श्वासं कासमरोचकम् । हिका हृद्रोगमशीसि विविधां शिरसो रुजाम् ॥ पाण्डामयं कफोत्क्लेशं सर्वजाञ्च प्रवाहिकाम् । पार्श्वहृद्वस्तिशूलञ्च गुडिकषा व्यपोहति ॥ ६१ ॥ नागरार्द्धपलं पिष्टा व पले लुञ्चितस्य च । तिलस्यैकं गुड़पलं क्षीरेणोष्णेन ना पिबेत् । वातगुल्ममुदावत्तं योनिशूलञ्च नाशयेत् ॥ ६२ ॥ - गङ्गाधरः-मातुलुङ्गेत्यादि। हिङ्ग दाडिमलकचूर्ण। हिङ्गादीनां समभागचूर्ण मातुलुङ्गरसेन भावयित्वा गुड़िकाः कृखा सुरामण्डेन पातव्यम् ॥ ६॥ गङ्गाधरः-शटीत्यादि । क्षारम् यवक्षारम् । यमानी क्षुद्रयमानीम् । अजगन्धां वनयमानीम्। अजमोदां क्षेत्रयमानीम् । एतदपि चर्ण प्रयोजयेत् । मातुलुङ्गरसेन मधुशुक्तेन मधुकृतचुक्रसन्धानेन वा तत् चर्ण भावयित्रा गुड़िकां कृखापि प्रयोजयेत् ॥ ६१॥ गङ्गाधरः-नागरेत्यादि। शुष्ट्या अर्द्धपलम् । लुश्चितस्य घर्षणेन तुषरहितस्य तिलस्य द्वे पले। एक गुड़स्य पलम् । पिष्ट्वा उष्णेन गव्येन क्षीरेण समु. दिताच्चतुर्गुणेन ना पुमान् पिबेत्। वातगुल्मादीन् नाशयेत् ॥६२॥ चक्रपाणिः-लुञ्चितस्नेति निस्तुषीकृतस्य । अत्र चौषधयोगो न्याधिहरमहिम्नैव भवतीति For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy