SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५७४ चरक-संहिता। (गुल्मचिकित्सितम शुद्धस्य तिक्तं सक्षौद्र प्रयोगे सपिरिष्यते। अन्तर्विद्रधिवच्चात्र कार्ये शोधनरोपणे ॥ ३५ ॥ शोतलैर्गुरुभिः स्निग्धैर्गुल्मे जाते कफात्मके। अवम्यस्याल्पकायाग्नेः कुर्य्याल्लानमादितः ॥ ३६॥ मन्दोऽग्निवेदना मन्दा गुरुस्तिमितकोष्ठता। सोक्लेशा चारुचिर्यस्य स गुल्मी वमनोपगः ॥ ३७॥ उष्णैरेवोपचर्यश्च कृते वमनलकने। योज्यश्चाहारसंसों भेषजैः कटुतिक्तकैः ॥३८॥ शुद्धस्येत्यादि। निःशेषण पूयनिःसरणात् शुद्धस्य तस्य भेषजप्रयोगे कत्तध्ये तिक्तं सर्पिः पञ्चतिक्तादिघृतं मधुना देयमिष्यते। इत्येवं शोधनं रोपणं विद्रधिवत् । इति पित्तगुल्मचिकित्सा ॥३५॥ गङ्गाधरः-अथ कफगुल्मस्य क्रियाक्रमः-शीतलैरित्यादि। शीतगुरुस्निग्धैः कारणैर्जाते कफात्मके गुल्मे अवम्यस्याल्पकायाग्नेः गुल्मिनो लङ्घनम् आदितः भिषगुपदिष्टं कुर्यात् ॥३६॥ __गङ्गाधरः-मन्दोऽग्निरित्यादि। वेदना यातना मन्दाल्पा। तद् गुरु च स्तिमितमामिव च कोष्ठं यस्य तस्य भावः। स वमनोपगः वमनमुपगन्तु शीलवान्, तं वामयेदिति भावः। इति तु न वामयेत् तेमिरिकम् न गुल्मिनमिति सामान्यतो वमनप्रतिषेधापवादः। वमनश्चास्य मृदु कार्यम् ॥३७॥ __ गङ्गाधरः-उष्णैरेवोपचय्यश्च स शीतगुरुस्निग्धकफगुल्मी । शीतादिविपरीत ह्योष्ण्यम्। कुटुतिक्तकैरिति तिक्तो रसो यद्यपि शीतवीय्येवान शीतविपरीतः तथापि गुरुस्निग्धविपरीतत्वेन भूयसा लघुरुक्षत्वेन शीतवीर्यका-वजयात ज्वरादिभ्यो रक्षन्नित्यर्थः। सविशोधनमिति विशेषेण सर्पिःपानम्। तितकमिति । दिन्यसाधितम् ॥ ३३-३५॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy