SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५५१ चरक-संहिता। (रक्तपित्तचिकिस्सितम् मुद्गाः सलाजाः सयवाः सकृष्णाः सोशीरमुस्ताः सह चन्दनेन । बलाजले पर्युषिताः कषायाः स रक्तपित्तं शमयत्युदीर्णम् ॥३६॥ वदूर्यमुक्तामणिगैरिकाणां मृच्छवहेमामलकोदकानाम् । मधूदकस्येचुरसस्य चैव पानाच्छमं गच्छति रक्तपित्तम् ॥ ४०॥ उशीरपद्मोत्पलचन्दनानां पक्वस्य लोष्टस्य च यः प्रसादः। सशर्करः क्षौद्युतः सुशीतो रक्तातियोगप्रशमाय पेयः॥४१॥ प्रियङ्गकाचन्दनलोध्रशारिवा-मधूकमुस्ताभयधातकीजलम् । समृत्प्रसादं सह षष्टिकाम्बुना सशर्करं रक्तनिवर्हणं परम् ॥४२॥ अथवा कल्कोकता अथवा मृदिताः फाण्टीकृताः, अथवा भृताः कथिताः, सव्वेव उदीर्ण रक्तपित्तं शमयन्ति ॥३८॥ गङ्गाधरः-मुझा इत्यादि। वलाजले वाट्यालकमूलकाथे मुदगादीनि सप्त द्रव्याणि शीतकषायविधानेन पय्यषितानि कारयेत् । तस्मात् निःसृतो यः कषायः स उदीर्ण रक्तपित्तं शमयति ॥३९॥ गङ्गाधरः-वैयेत्यादि। वैदूर्यमुक्तादीन्यामलकोदकान्तानि, प्रत्येकशः चर्णीकृत्य जलेन पान त् । उदकमत्र बालकम् । तथा मधदकस्य मधुमिश्रितमलस्य पानात् । तथा इक्षुरसस्य पानात् इत्यन्वयः ॥ ४०॥ गङ्गाधरः-उशीरेत्यादि। उशीरादीनां चतुणां कुट्टितानां जले स्थितानां यः प्रसादः स्वच्छकाथः स शकरामधुयुक्तः पेयः। पकस्य अग्नो क्षिप्लानिवर्णीभूतस्य लोष्टस्य जले निर्वापणीकृतस्य यस्तस्य प्रसादः स्वच्छभागः स सुशीतीकृत्य शर्करामधुयुक्तः पेयः ॥४१॥ ___ गङ्गाधरः-प्रियङ्गकादीनां धातक्यन्तानां कुट्टितानां जले स्थितानां निःसृतनिर्वासानां जलम्। मृत सौराष्टमृत्। जले प्रक्षेपेण यः प्रसादः स्वच्छरूपः स्यात् तेन सह। षष्टिकतण्डुलोदकशोराभ्यां युक्तं कृता पिवेत् ॥ ४२ ॥ प्रयोगमेपामाह। गणश इति तुगादि इति उशीरादिगणश इति च। अब च प्रत्येकायोगे समचन्दनत्वं श्रुतम्। तत्र पदान्तः प्रयोगो भवति । तथापि चन्दनस्य भागो देय इति व्याख्यानयन्ति वृदाः। बलाजल इति बलासाधितशीतजले। पर्युषिताः कषाया इति शीतकषायाः॥३८॥३९॥ चक्रपाणि:-वैदू-दिसहस्थितं जलं वैदूर्य्यादिजलं ज्ञेयम्। उशीरादीनां शीतकपाय इल्याविना । प्रसाद इति प्रसन्न जलं प्राहम् । प्रियङ्गादावभयमुशीरम् । मृत्प्रसादमित्यस मासादोऽपि For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy