SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४थ अध्यायः चिकित्सितस्थानम् । २५३५ प्लीहानश्च यकृच्चापि तदधिष्ठाय वर्तते। ...... स्रोतांसि रक्तवाहीनि तन्मूलानि हि देहिनाम् ॥ ६॥ सान्द्रं सपाण्डु सस्नेहं पिच्छिलञ्च कफान्वितम्। श्यावारुणं सफेनञ्च तनु रुक्षञ्च वातिकम् ॥ रक्तपित्तं कषायाभं कृष्णं गोमूत्रसन्निभम् । मेचकागारधूमाभमञ्जनाभञ्च पैत्तिकम् । संस्कृष्टलिङ्ग संसर्गात् त्रिलिङ्गं सान्निपातिकम् ॥७॥ गङ्गाधरः-ननु कुत एव वर्तते इत्यत आह-प्लीहानमित्यादि। तत् पित्तं प्लीहानं यकृच्च रक्तस्थानद्वयं नाडीद्वयमधिष्ठाय देहिनां स्रोतांसि रक्तवाहीनि तन्मूलानि प्लीहयकृन्मूलानि रक्तवाहीनि स्रोतांसि चाधिष्ठाय वत्तेते प्रवत्तेते, हि यस्मात् ॥६॥ गङ्गाधरः-अथ दोषभेदेन चिह्नमाह-सान्द्रमित्यादि। अश्लिोकेन कफान्वितम्। पुनरद्धे श्लोकेन वातान्वितम् । पुनरेकश्लोकेन पित्तप्रधानम् । मेचकं महनाञ्जनपिण्डवत् कृष्णम् । द्वित्रिदोषजान्याह--संसृष्टत्यादि ॥७॥ चकपाणिः-रक्तपित्तस्य स्थानमाह-प्लीहानमित्यादि। वर्तते इति तयोर्मध्ये चयति । वते इति वा पाठः। कस्माद् यकृत्प्लीहोरेव तद् वर्द्धत इत्याह-स्रोतांसीत्यादि । यसाद रक्तस्यापि यकृत्प्लीहानावेव स्थान प्रधानम्, तेन, संयोगादिनिष्पन्नस्य रक्तपित्तस्यापि तदेव स्थानमिति भावः ॥६॥ चक्रपाणिः-तस्य दोषसम्बन्धविशेषेण लिङ्गमाह-सान्द्रमित्यादि। कषायवत् आमा यस्य तत् कषायाभं पाटलमित्यर्थः। कृष्णवस्त्रादेः सतालगन्धकादिभिः मसृणीकृतस्य यो वर्णः स मेचकः । ननु पित्तमेव रक्तपित्तमित्युक्तम्, तत् कथं श्लैष्मिकं भवतु ? उच्यते, सामान्यसम्प्राप्ती पित्तमेव रक्तपित्तनिवर्त्तकम्, यथा सर्वगुल्मेषु वायुः, यथा सर्वज्वरेषु पित्तमारम्भकम्, तदेव तु यदा उल्वणेन कफेन स्वलक्षणकारिणा युक्तं रक्तपित्तकरं भवति, तदा सामान्यसंप्राप्तिप्राप्तपित्तमुत्सृज्य श्लेष्मणैव सम्बन्धात् स्वलक्षणकारिणा व्यपदिश्यते 'श्लैष्मिकरक्तपित्तम्' इति । यथा श्लैष्मिके गुल्मे सामान्यसम्प्राप्यन्तर्गतवातं परित्यज्य श्लेष्मणैव व्यपदेशो भवति, यथा वा कफज्वरे सर्वज्वरारम्भककारणमनादृत्य विशेषलक्षणकारिणा श्लेष्मणैव व्यपदेशो भवति, एवं वातिके रक्तपित्ते व्याख्येयम्। यत् तु कफवातविरहितेन केवलेनैव पित्तेन बलवता जनितं रक्तपित्तं पैत्तिकरक्तपित्तलक्षणयुक्तं भवति, तत् पैत्तिकमुच्यते। लक्षणेन हि दोषग्यपदेशो भवति । तेन, यहोषजनितलक्षणयुक्तं रक्तपित्तं भवति, तत् तजनितमिति म्यपदिश्यते, श्लैष्मिकादिरक्त For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy