SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५१४ चरक-संहिता। ज्वरचिकित्सितम् वमनैश्च विरेकैश्च वस्तिभिश्च यथाक्रमम् । ज्वरानुपाचरेद् धीमान् कफपित्तानिलोद्भवान् ॥ १७२॥ संस्कृष्टान् सन्निपतितान् बुद्धा तरतमैः समः। ज्वरान दोषक्रमापेक्षी यथोक्तरौषधैर्जयेत् ॥ वर्द्धनेनैकदोषस्य क्षपणेनोच्छितस्य च। कफस्थानानुपूा वा सन्निपातज्वरं जयेत् ॥ १७३॥ इत्यादि। ये च सामजाः कफजा ज्वराश्चकारात् ये च सामपित्तजाः ये च सामजाश्च कफपित्तज्वरास्तेषु ज्वरेषु प्रति प्रति प्रत्येक प्रत्येकं लङ्घनीयोक्तं लङ्घनीयतया निर्दिष्टस्य पुरुषस्यैवोक्तं लङ्घनं कार्यम् ॥१७१॥ गङ्गाधरः-ततः किं काय्यं तदाह-वमनैश्चेत्यादि। कफोद्भवं ज्वरं वमनः पित्तोद्भवं विरेकैः वातोद्भवं वस्तिभिरिति ज्वरान् बुद्धिमानुपाचरेदिति। संसृष्टान् इत्यादि। संसृष्टान् वातपिसजान वातकफजान् पित्तकफजांश्च तथा सान्निपातिकान ज्वरान् तरतमैः न्यूनमध्याधिकः समैश्च दोषैरारम्भकैवु द्धा दोषक्रमापेक्षी भिषक् तन्नानमध्याधिकसमदोषक्रममपेक्ष्य यथोक्तैवमनादिभिः पूर्वोक्तश्च पाचनैः शमनैश्चौषधैः जयेत् । तत्रैकदोषस्योच्छितस्य क्षपणेन वापरोऽनुच्छितो दोषो यथा न वद्धते तथा कृखा जयेदिति भावः। सन्निपातज्वरस्य प्रकारान्तरेण दोषक्षपणमाह-वर्द्धनेनेत्यादि। कफस्थानानुपूा “संन्निसामान्येन लाघवकरं लखनमाह-सामा इत्यादि। सामा इत्यनेनापि वातिकस्यापि सामास्थलङ्घनीयत्वं न केवलं सामपित्तस्य ब्रूते। उक्तं ह्यन्यत्र-“सामे वातेऽपि लखनम्" इति। कफज तु निरामेऽपि लङ्घनमिति कफजं पृथगुच्यते। "कफपित्तज"शब्देन कफयुक्तपित्तजस्यैव लङ्घनीयत्वम्, न केवलनिरामपित्तजस्य, सामपित्तस्य तु आमक्षयार्थ लङ्घनं शस्यत एव । यदुतम् अन्यत्र-“सामे पित्ते लखनं कुर्य्यादेवामपत्यर्थम्" इति। यदुक्तम्-"कफपिसे द्रवे धातू सहेते लङ्घनं महत्" इति, तदपि सामान्येन सद्रवपित्तापेक्षया, क्षीणद्रवांशे तु पित्त लङ्घनं न कर्त्तव्यमेव लङ्घनीयोक्तवचनेन। लङ्घनवृहणीयोक्तः शविधलङ्घनं अवस्थानिषिद्धवमनादि सर्वथानिषिद्धव्यायामादिसहितं च ग्राह्यम् ॥ १७१ ॥ चक्रपाणिः-पूर्व यद "वमनाद्" इत्युक्तम्, तत् संसृष्टज्वरदोषेषु कफाधिकेषु । सम्प्रति एकैकदोषजे वमनैश्वेत्यादिना वमनादीनि प्राह इति न पौनरुत्तयम् । संसर्गसनिपातचिकित्सासूखमाह-संस्थानित्यादि। तरतमैः समैरिति संसर्गे एकोल्वणोल्वणतरे सन्निपाते च वृद्धस्तर For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy