SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २५०२ www.kobatirth.org चरक संहिता | - Acharya Shri Kailassagarsuri Gyanmandir पटोलपिचुमर्दाभ्यां गुड़ च्या मधुकेन च । मदनैश्व श्रुतः स्नेहो ज्वरन्नमनुवासनम् ॥ १५२ ॥ चन्दनागुरुकाश्मर्थ्य - पटोलमधुकोत्पलैः । सिद्धः स्नेहो ज्वरहरः स्नेहवस्तिः प्रशस्यते ॥ [ ज्वरचिकित्सितम् यदुक्तं भेषजाध्याये विमाने रोगभेषजे । शिरोविरेचनं कुर्य्याद युक्तिज्ञस्तज्ज्वरापहम् ॥ अनुवासनम् ॥ For Private and Personal Use Only १५३ ॥ स्नेहवस्तिः । ( नस्यम् । ) गङ्गाधरः - पटोलेत्यादि । पटोलपत्रनिम्बपत्र गुडूचीयष्टिमधुमदनफलानि इति पञ्च कल्कीकृत्य चतुर्गुणजले शृतः पकः स्नेहः श्रेष्ठखात् घृतमधिकारात् सर्पिस्तैलञ्चेति वा चतुः स्नेहानामन्यतमो वा ॥ १५२ ॥ द्वितीयोऽनुवासनयोगः । गङ्गाधरः- चन्दनेत्यादि । चन्दनादीनि षट् द्रव्याणि कल्कीकृत्य चतुर्गुणे जले सिद्धः स्नेहः पूर्व्ववदेकः सर्पिरादिः पकः ज्वरहरः स्नेहवस्तिः अनुवासनवस्तिः ॥ १५३ ॥ गङ्गाधरः- अनुवासनमुक्त्वा गौरवे शिरसः शूले इत्यादिना यच्छीर्षविरेचनविधानमुक्तं तस्य योगानाह - यदुक्तमित्यादि । भेषजाध्याये भेषजचतुष्कान्तर्गतेऽपामार्ग तण्डुलीयेऽध्यायेऽपामागस्य वीजानीत्यारभ्य ज्योतिष्मती नागरचेत्यन्तेन यच्छिरोविरेचनमुक्तं, विमाने रोगभेषजे इति विमानस्थाने रोगभिषग जितीयेऽध्याये सर्व्वशेषे शिरोविरेचनद्रव्याणि पुनरपामार्गेपिप्पलीमरिचेत्यारभ्य शिरोविरेचनार्थमुपदिशन्तीत्यन्तेन यच्च शिरोविरेचनमुक्तं, युक्तियो भिषक् तेषु मध्ये यज्ज्नरापदं शिरोविरेचनं तद् बुद्धया युक्त्या ज्वरे कुर्य्यात् । स्नेहाच्चातुगुष्यं द्रवस्य कार्य्यम् । 'मदनश्च शृतः स्नेहः' इत्यनन्तरोक्तसपिस्तैलरूप एव यमक स्नेहो बोद्धव्यः । एवं 'सिद्धः स्नेहः' इत्यत्रापि ज्ञेयम् ॥ १५० - १५३ ॥ चक्रपाणिः -- यदुक्तमित्यादिना शिरोविरेचनद्रव्यमाह । भेषजाध्याय इत्यपामार्गतण्डुलीये ।
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy