SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४६२ चरक-संहिता। ज्वरचिकित्सितम् कषायाः सर्व एवैते सर्पिषा सह योजिताः । प्रयोज्या ज्वरशान्त्यर्थमग्निसन्धुक्षणाः शिवाः ॥ १३३ ॥ गङ्गाधरः-ननु के के स्नेहा इत्यत आह-कषाया इत्यादि। पाक्यं शीतकषायं वेत्यादिभिये व्याख्याताः कवायाः कषायद्रव्याणि, ते सर्व एव यथैकंकयोगं काथं सर्पिषा पुराणसपिषा सह योजिताः कल्कीकृत्य सर्पिश्चतुर्गुणं दत्त्वा पक्त्वा प्रयोक्तव्याः। “यत्राधिकरणेनोक्तिगणे स्यात् स्नेहसंविधौ। तत्रैव कल्कनिय्यूहाविष्येते स्नेहवेदिना” इति परिभाषया गणाधिकाराभावात् कल्कः एवैषां सपिःसाधने हि सपिषा सहषां कल्कीभूतत्वेन प्रक्षेपे साक्षात् सम्बन्धेन मुख्यता। कषायरूपतया तु स्वरूपतोऽप्रक्षेपेण न मुख्यता, मुख्ये हि काय्यसम्प्रत्यय इति न कषाय एषाम् । एवं पिप्पल्याद्य घृतमपि व्याख्येयम्, तथान्यच्च यदयदेवं भवतीति कश्चिदाह, तन सम्यगनाखात् । सुश्रुते हि "कल्ककाथावनिर्देशे गणात् तस्मात् प्रयोजयेत्” इत्युक्तं तवचनेन योऽर्थः सम्पद्यते तथैव यत्राधिकरणेनोक्तिरिति वचनव्याख्यानं कर्त्तव्यम् । तद् यथा । यत्राधिकरणे यद्योगनिर्देशाधिकरणे वचने स्नेहसंविधौ द्रव्याणां गणे कल्कक्काथयोः नोक्तिनै निर्देशस्तत्रैव कल्कनिय्यही स्नेहवेदिनेष्येते। इति व्याख्यानं सुश्रुतवचनार्थेन तुल्यं भवति। अधिकारितयेति व्याख्याने विरोधः स्यादतो न तग्राख्यानं साधु। तस्मात् त्रिप्रभृतिद्रव्येण योगे तेषामेव द्रव्याणां कल्ककायौ प्रयोजयेदिति एवं पिप्पल्यायघृतादौ कल्ककाथौ बोध्यौ । इति ॥१३३ ॥ 'स्नेह'शब्देन च प्रकरणात् सर्पिरुच्यते। सर्पिषः फफहरश्च संस्कारञ्च भवति । यदुक्तम्"धृतं तुल्यगुण दोषं संस्काराच्च जयेत् कफम्" इति । किञ्च, "अत जबै कफे मन्दे" इत्यादिना विष्वपि दोषेषु सर्पिःप्रयोगोऽनुमतः ; तदिहापि सय एव दोषा यथोक्तव्यस्थया सर्पिविषयाः प्रतिपादिता भवन्तीति। अस्माकन्तु पूर्व एव व्याख्याने स्वरसः ; अन्ये तु-रुक्षे तेजो ज्वरकरम्' इति पठन्ति, रुक्ष इति कषायादिभिः रुक्षीकृतशरीर इति ज्ञेयम्, शेषं पूर्ववत्। अयञ्च पाठः पूर्वटीकाकृनिर्भीमदत्त-स्वामिदास-औषाढ़ेब्रज्ञ(धर्म)प्रभृतिभिरपि व्याखातत्यान्न प्रतिक्षेपणीयः । खरनादेनापि समानोऽयं पाठः, उक्तं हि तन-"कषायपानाद् वमनाल्लङ्घनाल्लघुभोजनात् । रुक्षितानां ज्वरत्यागे सर्पिःपानमुदीक्षते। रुक्षे तेजोऽधिके देहे" इत्यादिना ॥ १३२॥ चक्रपाणिः-सम्प्रति सी षि प्राह-कषाया इत्यादि। य एते ज्वरना उक्ताः, ते सर्पिषा सह योजिता इति सर्पिःसाधनत्वेन प्रयुक्ताः प्रयोज्याः यथोक्तकषायद्रव्यैः, स्वविषय एव सी षि साधयित्वा प्रयोज्यानीति वाक्यार्थः ; अन्ये तु, कषायाणां सर्पिषा मिश्रीकृतानामनेन वचसा प्रयोगमिच्छन्ति ॥ १३३ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy