SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४७६ चरक संहिता। [ ज्वरचिकित्सितम ज्वरे पुराणे संक्षीणे कफपित्ते दृढ़ाग्नये। रुक्षबद्धपुरीषाय प्रदद्यादनुवासनम् ॥६६॥ गौरखे शिरसः शूले विबद्धेष्विन्द्रियेषु च। जीर्णज्वरे रुचिकरं दद्याच्छीर्षविरेचनम् ॥ १० ॥ अभ्यङ्गांश्च प्रदेहांश्च सस्नेहान् सावगाहनान् । विभज्य शीतोष्णकृतान् ® दद्याज्जीर्णज्वरे भिषक् ॥ गङ्गाधरः-नन्वेवं विरेचनेनाक्षीणबलमांसस्य ज्वरक्षीणस्य तु पयसा निरूहेण वा यदि मलनिःसरणं सम्यङ् न स्यात् तथा मलपित्तकफक्षयेऽपि यदि ज्वरो न शाम्येत्, तस्य किं काय्यमित्यत आह-ज्वरे पुराणे इत्यादि । कफपित्ते संक्षीणे सति प्रबलवायौ च सति दृढ़ाग्नये ज्वरिताय रुक्षाय तथा बद्धं पुरीषं यस्य तस्मै चानुवासनं ज्वरहरं दद्यात् ॥ ९९ ॥ गङ्गाधरः-एवं कृते यदि शिरसो गौरवं शुलञ्च वर्तते, वर्तन्ते च विबद्धानोन्द्रियाणि, तदा यत् कार्य तदाह-गौरव इत्यादि। जीर्णज्वरे त्रयोदशदिनात् परं शीर्ष विरेचनं दद्यान्नतु पूर्वमिति ॥ १० ॥ .. गङ्गाधरः-एवं कृते अभ्यन्तरदोषक्षये वहिर्मार्गखगादिगतदोषे वर्तमाने ज्वरो यदि न शाम्यति, तदा यत् कायं तदाह-अभ्यङ्गांश्चेत्यादि। अभ्यजान् स्नानकाले स्नेहाभ्यङ्गं विना कालान्तरे ज्वरहरतैलाभ्यङ्गान् सस्नेहान् सावगाहनान् प्रदेहांश्च ज्वरहरतैलादिस्नेह मिश्रितान् प्रदेहान् प्रदिह्य ततोऽवगाहान् काथादीन् काथादिष्वथवा रसादिष्वगाह्य प्रदेहान् शीतोष्णकृतान् विभज्य शीतज्वरे जीर्णे उष्णैरगुळदिभिद्रव्यैः कृतान्, उष्णे दाहाबले जीर्णज्वरे विहितं वमनं स्वयमुक्लिष्टदोषे ज्ञेयम्, एतच्च जीर्णज्वरविहितं वमनं स्नेहस्वेदाभ्यां दोषमुत्क्लेश्य कर्तव्यमिति विशेषः। पित्ताशय आमाशयाधोभाग एव । स्रसनमिति च्छेदः ॥ ९ ॥ चक्रपाणिः-अनुवासनविषयमाह-ज्वर इत्यादि। प्रकरणागतायामपि पुराणतायां 'पुराणे इति पदमत्यर्थपुराणतामाह। गौरव इत्यादिना शिरोविरेचनविषयमाह। शिरस इति पूर्वेणोत्तरेण च योज्यम् । इन्द्रियाणां विबद्धत्वं स्वविषयप्रवृत्तिरहितत्वम् ॥ ९९ । १००॥ . चक्रपाणिः-अन्तःपरिमार्जनमभिधाय वहिःपरिमार्जनमाह-अभ्यङ्गाश्चेत्यादि। प्रदेहः सामान्येन बहलोऽबहलश्च गृह्यते। ये तु सुश्रुतमतेन बहलं विशोषिणं प्रदेहं ग्राहयन्ति, तन्मतेन • शीतोष्णतया कुर्य्यादिति पाठान्तरम् । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy