SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३य अध्यायः] २४७३ चिकित्सितस्थानम्। निर्दशाहमपि ज्ञात्वा कफोत्तरमलजितम् । न सर्पिः पाययेत् प्राज्ञः कषायै-छ-स्तमुपाचरेत् ॥ यावल्लघुत्वादशनं दद्यान्मांसरसेन च। भवत्यलं निग्रहाय दोषाणां बलकृच्च तत् ॥ ६४ ॥ गङ्गाधरः-ननु कफश्चेन्न दशमाहात् परं मन्दः स्यात् तदा किं कर्तव्यमित्यत आह-निर्देशाहमित्यादि। दशाहान्निर्गतमपि ज्वरितं कफोत्तरमलवितं शाखा तं न सर्पिः पाययेत् कषायैः पाचनशमनीयस्तमुपाचरेत्। ननु कियन्तं दिवसं कषायं दद्यात् किश्चास्मा अशनं दद्यादित्यत आह-यावल्लघुखादित्यादि। कफस्य यावल्लघुत्वं स्यात् तावत् कफोत्तरमलवितं ज्वरितं निर्देशाहमपि कषायैः शमनीयः शोधनीयैर्वा उपाचरेत्। मांसरसेन चास्मा अशनं लघ्वनभोजनं दद्यात्। ननु कस्मान्मांसरसेनाशनं दद्यादित्यत आह-भवत्यलमित्यादि। तन्मांसरसेनाशनं दोषाणां निग्रहायालं समर्थं भवति ज्वरितस्य बलकृच्च भवति। बलं हलमिति पाठे तन्मांसरसेनाशनश्च ज्वरितस्य वलकृत् बलं हि दोषाणां निग्रहायालं समर्थमित्यर्थः ॥ ९४॥ चक्रपाणिः-उक्तसर्पिष्पाणापवादविषयमाह-निशाहमित्यादि । निर्गतो दशाहो निई शाहः । अलवित्तमिति असञ्जातलचित्तलक्षणम् , इयञ्चावस्था प्रबलसामदोषारब्धत्वाज्ज्वरस्य तथाऽसम्यक उपचाराच भवतीति ज्ञेयम्। शमनैस्तु कफोत्तरमलचित्तञ्चोपाचरेत् । यावल्लघुत्वादिति च्छेदः । लघुत्वे तु जाते यावत् कफोत्तरताऽलचिता च नापयाति, न तदा सर्पिष्पाणमेवानुवृत्त कर्तव्यम् इत्यर्थः। यावदिति यावल्लघुत्वात् लघुत्वपर्यन्तं शमनैरुपाचरेत्, लघुत्वे सति सर्पिषः पानम् । अथवा यावत् तावत् नित्ययोगित्वात् लघुत्वात् यावल्लघुत्वपर्यन्तं शमनैरुपाचरेत् , तावन्मांसरसेनाशनं निई शाहज्वरे कफोत्तरेऽप्यलचितेऽपि देयमित्याहुः-अशनं दद्यान्मांसरसेनेति। ननु कफोत्तरेऽलवितेऽपि निई शाहज्वरे मांसरसेन किमर्थमेवाशनं कफविरुद्ध देयमित्याह-बलं होत्यादि। बलकृच्च तदिति मांसरसेनाशनं बलकारकमित्यर्थः ॥ ९४ ॥ • शमनैरिति चक्रवृतः पाठः। For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy